________________ प्रथमः सर्गः ( 36 ) विलीयते हन्त कदाचिदागता, परा विपत्तौष्टिक-शान्तिकादिभिः / सदापतत्क्षुद्विपदो निवारणं, न मूलमन्त्रादिकमस्ति किञ्चन // (40 ) गुणा विवेकप्रमुखाः कुकर्मणा, बलीयसौदर्यहुताशने हुताः / कुकोत्तिमूर्तीर्दधतेऽत्र भस्मसाद्भविष्णवः कस्य न सञ्चरिष्णवः // ( 41 ) सुवृत्तसङ्गीतमदान्धमानिनी, प्रणीतचेतोविकृतिक्षुदुद्भवाः। क्रमाद् बलाढ्यास्तदयं कलाभृतः, कलावृतौ दर्शयतीव दर्शताम् // ( 42 ) जगद्धितार्थ जलराशिसम्भवं, व्यधायि कण्ठे गरलं स्मरद्विषा / ___.. न कोऽपि देवः स कृपालुरस्ति यः, समुद्धरेत् क्षुद्विषमङ्ग सङ्गतम् //