________________ पार्षभीय-चरित-महाकाव्यम् ( 35 ) अनेन में वार्षिकदानवर्षिणा, न वास्तु वस्तुं भुवि किञ्चिर्पितम् / इतीव भिक्षोपननाम नाम न, प्रभुं श्रितं भिक्षुदशां समत्सरा // . ( 36 ) अहो परब्रह्मनिरुध्यमानसा, विनाशवृत्ति स तदाऽन्वभूद् विभुः / इतीव कच्छप्रमुखास्ततः पृथग, बभूवुरध्वति सतीर्थ्यतां गताः // .. ( 37 ) द्विधाऽप्यभक्तः प्रभुसङ्गवञ्चितै बुभुक्षितैस्तैर्वतमेव भक्षितम् / जनावनं मुक्तिपथं विहाय ते, वनं भवाध्वानमिव प्रपेदिरे // (38) व्यचिन्तयंश्चेदमहो तनोधनो पवासवासीभिरजस्रतक्षणम् / . यथा मुनीनां व्रतरक्षणं तथा, 'न दुष्करं चित्तनिरोधलक्षणम् //