________________ प्रथमः सर्गः ( 31 ) बभूव रत्नत्रययोगतो व्रते, प्रभुर्घरत्नाच्चतुरश्चतुर्गुणः / नृपः सहस्र रिति युक्तमुत्तमैश्चतुर्गुणैरंशुभिरन्वगम्यत // ( 32 ) अमी हि कच्छप्रमुखाः सुखासिका मविस्मरन्तः प्रथमं प्रसादजाम् / अथापि नः स्तात् प्रभुतुल्यशीलतालताफलप्राप्तिरिति व्रतं ललुः // ( 33 ) अमी चतुर्मुष्टिकलोचमीशितः, पितुः प्रजानामनुचक्रिरे सुखम् / परीषहाहेर्जठरैक-जन्मनो; विनिग्रहे नो गरुडायितं पुनः // ( 34 ) रथाश्वकन्येभधनादिभिर्जन न दीयमानरुपयुक्तमीशितः / सुरद्रुवदुर्लभदर्शनेऽत्र तै न च प्रतीता सुलभान्नपात्रता // पा-२