________________ पार्षभीय-चरित्र-महाकाव्यम् ( 27 ) वृषाङ्कमेकं किल जाह्नवी श्रिता, श्रुतेति वार्ता सकलेऽपि मण्डले / वृषाङ्कमेनं किमु तज्जिगीषया, कलिन्दकन्याऽपि जटात्मनाऽभजत् / / . ( 28 ) समाधिसारैः समताकरग्रहे, __ न देहगेहे धवलीकृते किम् / तदंसयोरुल्लसिता कचावलिः, परिस्फुरत्तोरणतामुपाययो / __ . ( 26 ) व्रतोत्सवे कुन्तलसन्ततिविभोः, शिरःस्थिता कज्जलमञ्जुलप्रभा। स्वयं समुत्तीर्णनवोदधेः क्वचिद्विलग्नसेवाललता श्रियं दधौ // (30) द्विषां दृशोरुग्रविषं शुभस्पृशां, शरीरिणामणमदाञ्जनं धनम् / जटाऽस्य रेजे बहुधूमधोरणी,. तपः कृशानोर्दुरितद्रुधूमरी॥