________________ प्रथमः सर्गः ( 23 ) व्रतत्रपा मूनि न केवलं निजा, महात्मभिर्भक्तकृपाऽपि धार्यते / सुरोपरोधादिति रक्षितालका, जगाविदं मुष्टिसमस्यया विभुः // (24) प्रभूत्तमाङ्गस्थितिपावना स्म मा, पतन्निमे भूरजसीति भावयन् / धृतान् स्ववस्त्रे निदधौ पयोम्बुधौ, शचीपतिस्तेन विलुञ्चितान् कचान् // ___( 25) असौ धृतध्यानसुखस्थिरासनो, जटावलीमण्डनमण्डितो बुधैः / अलक्ष्यताध्यात्मगुणः फलैंग्रहि- लतान्वितः कोऽपि तपोमहीरुहः // __ (26) अभूदसावुन्नतधर्ममेघभाग, | व्रतग्रहादादित एव कि विभुः / अटाटयमानामिति मूनि तज्जटा मुदीक्ष्य साक्षादुदनायि योगिभिः //