________________ आर्षभीय-चरित्र-महाकाव्यम् (1) हरिः कणेहत्य निपीत-तद्वचः, सुधां तृणायापि न मन्यते बुधः / अतः कथं तत्र सुधा सुधावता, - रसेन साम्यं ननु सङ्गतं भवेत् // (20) व्रतं जिघृक्षु (क्षो)-र्भरतादिभूभुजां, कलाः पराः सादित-साधुचन्द्रमाः / ददाति या मूनि पदं भवस्य सा, कला किलकाभिमतास्य योगिनः // . (21)' शते सुतानां चिरकालमुद्धृतो, . विभज्य दत्तोऽप्यमुना क्षमाभरः / वते ततो नापचकर्ष स क्षणं, महाद्भुतं प्रत्युत वृद्धिमाप्तवान् / ( 22 ) कचच्छलाद् मुष्टिचतुष्टयाद्भवान्, विलुञ्चतु द्राक् चतुरः ऋधादिकान् / न पञ्चमी मुष्टिरतिप्रयोजने ऽत्यरक्षदिन्द्रार्थनया नया सताम् //