________________ प्रयमः सर्गः (15) स्वकीयगाम्भीर्यहृतः पयोनिधिः, समुच्छलन् वीचिकशान्तताडनम् / अमुष्य सख्यं सृजतो मुखस्य कि, विधोः स्वसूनोर्न तनोति रोषणः // (16) वदान्यभावादमुना विनिजितो, धुसन्मणिः स्वर्गिमहीरहैः समम् / तथा व्यथामाप समुद्धृतां नतै र्यतो न दुःखं किल पञ्चभिः सह // ( 17) असङ्ख्यकालाजितदातृतायशो, हतं क्षणात्तेन वदान्यमौलिना। न सङ्ख्ययव व्यथयाऽपि पञ्चतामजीगणन् स्वामिति कल्पभूरुहाः // (18) न वेदना मे जनटङ्कदारणा दिति प्रभौ दातरि रोहणोऽहृषत् / विभज्य दद्यादयमथिने न मा मिति स्वतः स्वर्णगिरिस्त्वकम्पत //