________________ आर्ष नीय-चरित-महाकाव्यम् (11) असङ्ख्यशक्तेस्त्रिजगद्विभोः कियत्, त्रिशक्तियुक्तत्वमुखेन वर्णनम् / गुणैरनन्तैः सहितस्य तस्य च, स्तुतिन शाड्गुण्यमुदीर्य पूर्यते // (12) अबाधयानेन तथा परस्परं, त्रिवर्गसेवा विधिवद् व्यधीयत / यथाऽस्य सार्वत्रिकवैरवारिणः, स्वतोऽपवर्गोऽप्यनुकूलतां ययौ // (13) यथा यथा नीतिमति करोत्यसौ, भवत्यनीतिः पृथिवी तथा तथा / द्वयोविरोधः परिणामतश्च नेत्यपूर्वमेतत्प्रभुराज्यकौशलम् // (14) प्रसिद्धजीवाभयदातृतागुणात्, ततो न भेजे धुसदां गुरुर्भयम् / कुतोऽन्यथा याति तदीयवाग्मिता- . गुणाभिभूतः स न कान्दिशीकताम् //