________________ प्रथमः सर्गः (7) न जातु कोपात्कुटिलीकृते भ्र वौ, शरासने नैव शिरो न्यधीयत / स्वशक्तिमोघीकृतशेषसाधनः, प्रताप एवास्य ततान दिग्जयम् // (8) ग्रहेषु भास्वानिव कान्तिसम्पदा, ___ सदाशयो युग्मिषु सर्वतोऽधिकः / प्रजाहितार्थ कृतसारसङ्ग्रहो, बभूव भूमान् भरते स आदिमः // (6) सदा सुपर्वोल्लसितां घनाप्सरो विलासपूर्णाममरावतीमिव / जनैविनीतैः कृतसूनृवाह्वयां, पुरी विनीतामयमन्वशाद् विभुः // (10) धनस्य पूतौ धनदः प्रदत्तदृक्, सदाऽस्य दास्य-स्थिर एव वासवः / दिशामभूवन्नधिपाश्च रक्षका, न लक्षकार्येष्वपि ये प्रमद्वराः //