________________ आर्षभीय-चरित-महाकाव्यम् (3) तदागमाब्धेरुपजीव्य जीवां, परेऽपि गर्जन्ति घनाघना इव / तदीयवृष्टेरपि भूमिभेदतो, विचित्रशस्योदयसम्पदोक्ष्यते // 3 // .(4) जगत्यशेषस्तदुपज्ञमज्ञता,, निरासकृद्धर्मविधिः प्रवर्तते / न शार्वरध्वान्तहरं विना रवे रवेक्ष्यतेऽन्यस्य महोमहोदयम् // . (5) मरुत्प्रियो रुद्धमरुत्पथोऽपि स, क्षमाधनोऽपि प्रथितोऽपरिग्रहः / घनाघनाशोऽपि जलाशयोज्झितो, . न चिन्तनीयं चरितं महात्मनाम् // . (6) अधः सुधाकुण्डगणं सुरापगां, यदूर्ध्वमन्वेति च तिर्यगम्बुधीन् / वितृष्णभावोदितमप्यदो यशः, .. सतृष्णमत्यद्भुतमातनोति तत् //