________________ न्यायविशारद-न्यायाचार्य-महोपाध्यायश्रीमद्यशोविजयगणिवर्य विरचितम् आर्षभीयचरित-महाकाव्यम् [ प्रथमतीर्थकर-श्रीऋषभदेवस्य चरित्रम् / ] -: प्रथमः सर्गः: (1) श्रुतस्थितेर्यः कमलालयो यशः, पुपोष विश्वे वृषभासनोचितः। तमःप्रमाथी पुरुषोत्तमः शुचि : महेश्वरः पातु स नाभिनन्दनः // . (2) स एव देवः किल भिन्ननामभि विविच्य लोकैस्समुपास्यते सदा / पृथक्पृथक्तस्य फलार्पणे पुनः, सहायतामञ्चति वासनाभिदा // पा-१