SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ સંસ્કૃત બીજી ચોપડી 267 मान्यान्मानय विद्विषोऽप्यनुनय प्रच्छादय स्वान्गुणा न्कीर्ति पालय दुःखिते कुरु दयामेतत्सतां लक्षणम् // 39 // मनसि वचसि काये पुण्यपीयूषपूर्णा स्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः / परगुणपरमाणून्पर्वतीकृत्य नित्यं निजहृदि विकसन्त: सन्ति सन्तः कियन्तः // 40 // रत्नैमहार्हस्तुतुषुन देवा न भेजिरे भीमविषेण भीतिम् / सुधां विना न प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः॥४१।। ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो शानस्योपशम: श्रुतस्य विनयो वित्तस्य पात्रे व्ययः / अक्रोधस्तपस: क्षमा प्रभवितुर्धर्मस्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् // 42 // 4. (मरी पूलासमाथी *देवि किमत्र क्रियतां दैवायत्ते वस्तुनि / अलं रुदितेन / न वयमनुग्राह्याः प्रायो देवतानाम् / आत्मजपरिष्वङ्गामृतास्वादसुखस्य नूनमभाजनमस्माकं हृदयम् / अन्यस्मिञ्जन्मनि न कृतमवदातं कर्म / जन्मान्तरविहितं हि कर्म फलम्पनयति पृरुषस्येह जन्मनि / न हि शक्यं दैवमन्यथा कर्तुमभियुक्तनापि। यावत्त मानुष्यके शक्यमुपपादयितुं तावत्सर्वमुपपाद्यताम् / अधिकां कुरु देवि गुरुषु भक्तिम् / द्विगुणामुपपादय देवतासु पूजाम् / ऋषिजनपरिचर्यासु दर्शितादरा भव / परं हि देवतमृषयो यत्नेनाराधिता यथासमी हितफलानामतिदुर्लभा. જે છોકરા ન હોવાથી શોકગ્રસ્ત થયેલી પિતાની રાણીને એક રાજાએ આ પ્રમાણે કહ્યું છે.
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy