SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ 262 સંસ્કૃત બીજી ચોપડી स्वात्यां सागरशुक्तिमध्यपतितं सन्मौक्तिकं जायते प्रायेणाघममध्यमोत्तमगुणः संवासतो जायते / / 32 // नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान्गुणान्ख्यापयन्तः स्वार्थान्संपादयन्तो विततबहुतरारम्भयत्नाः परार्थे / क्षान्त्यैवाक्षेपरुक्षाक्षरमुख रमुखान्दुर्मुखान्दूषयन्तः सन्तः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्चनीया॥३३।। भवन्ति नम्रास्तरवः फलोद्गमै वाम्बुभिभूरिविलम्बिनो घनाः / अनुद्धताः सत्पुरुषाः समृद्धि भिः स्वभाव एवैष परोपकारिणाम / / 34 // श्रोत्रं श्रुतेनैव न कुण्डलेन . दानेन पाणिर्न तु कङ्कणेन / विभाति कायः करुणापराणां परोपकारैर्न तु चन्दनेन / / 35 // पापान्निवारति योजयते हिताय गुह्यं च गृहति गुणान्प्रकटीकरोति / आपदगतं न च जहाति ददाति काले सन्मित्रलक्षण मिदं प्रवदन्ति सन्तः / / 36 / / एते सत्पुरुषाः परार्थघटकाः स्वार्थान्परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये / तेऽमी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ये तुघ्नन्ति निरर्थक परहितं ते के न जानीमहे // 37 // इतः स्वपिति केशवः कुल मितस्तदीयद्विषा मितश्च शरणार्थिनः शिखरिणां गणाः शेरते / इतोऽपि वडवानलः सह समस्तसंवर्तके ___रहोविततमूर्जितं भरसहं च सिन्धोर्वपुः // 38 // तृष्णां छिन्धि भज क्षमा जहि मई पापे रतिं मा कृथाः / सत्यं बुझनुयाहि साधुपदवीं सेवस्व विद्वज्जनान् /
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy