SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ સંસ્કૃત બીજી ચોપડી नामपि दातारो भवन्ति / श्रूयते हि पुरा चण्डकौशिकप्रसादान्मगधेषु बृहद्रथो नाम राजा जनार्दनस्य जेतारमतुलबलपराक्रमं जरासंधं नाम तनयं लेभे / दशरथश्च राजा परिणतवया अपि विभाण्डकमहामुनिसुतस्यर्घ्य शृङ्गस्य प्रसादानारायणभुजानिवाप्रतिहतानुदधीनिवाक्षोभ्यानवाप चतुरः पुत्रान् / अन्ये च राजर्षयस्तपोधनानाराध्य पुत्रदर्शनामृतस्वादसुखभाजो बभूवुः / अमोघफला हि महामुनिजनसेवा। अहमपि खलु कदा समुपारूढगर्भभरालसामापाण्डुरमुखीमासन्नचन्द्रो दयामिव पौर्णमासी निशां देवीं द्रक्ष्यामि / कदा मे तनयजन्ममहोत्सवानन्दनिर्भरी हरिष्यति पूर्णपात्रं परिजनः / कदा हारिद्र. वसनधारिणी सुतसनाथोत्सङ्गा द्यौरिवोदितरविमण्डला सबालातपा मामानन्दयिष्यति देवी। कदा सर्वोष धिपिजरजटिलकेशो गोरोचनाचित्रितकण्ठसूत्रग्रन्थिरुत्तानशयो दशनशून्यस्मिताननः पुत्रको जनयिष्यति मे हृदयाहूलादम् / कदा गोरोचनाकपिल. द्युतिरन्तःपुरिकाकरतलपरंपरासंचार्यमाणमूर्तिरशेषजनाभिनंदितो मङ्गल प्रदीप इव मे शोकान्धकारमुन्मूलयिष्यति चक्षुषोः। कदा च क्षितितलरेणुधूसरो मण्डयिष्यति मम हृदयेन दृष्ट्या च सह परिभ्रमन्भवनाङ्गणम् / कदा केसरिकिशोरक इव संजातजानु. चङ्क्रमणारम्भः संचरिष्यतीतस्तः स्फटिकमणिमयभित्त्यन्तरितान्भवनमृगशावकानाजिघृक्षुः / कदान्तःपुरिकानू पुरनिनादसंग. तान्गृहकलहंसकाननुसरन्कक्षान्तरप्रधावितः कनकमेखलाघण्टि कारवानुसारिणीमायासयिष्यति धात्रीम / कदा मातुश्चरणरागो. पयुक्त शेषेण पिण्डालतकर सेन क किनां विम्बयिष्यति
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy