________________ 258 સંસ્કૃત બીજી ચોપડી 3. (सत रिना नीतिशतमाथी) अशः सुखमाराध्यः सुखतरमाराध्य ते विशेषज्ञ: / शानलबदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति // 1 // लभेत सिकतासु तैलमपि यत्नतः पीडय पिबेच्च मृगतृष्णिकासु सलिलं पिपासादितः / कदाचिदपि पर्यटशशविषाणमासादये - न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् // 2 // व्यालं बालमृणालतन्तुभिरौ गेडु म मज्जृम्भते छेत्तुं वनमणीशिरीषकुसुम्प्राम्तेन संनते / माधुर्य मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते / नेतुं वाञ्छति यः खलान्पथि सतां सूक्तः सुधास्यन्दिभिः॥३॥ स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमशतायाः / विशेषतः सर्वविदां समाजे विभूपणा मौनमपण्डितानाम् // 4 // साहित्यसंगीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः / तृणं न खादन्नपि जीवमानस्तद्वागधेयं परमं पशूनाम् // 5 // येषां न विद्या न तपो न दानं शान न शीलं न गुणो न धर्मः। ते मृत्युलों के भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति // 6 // वरं गहनदुर्गेषु भ्रान्तं वनचरैः सह / __न मूर्खजनसंपर्कः सुरेन्द्रभवनेष्वपि / / 7 // हर्तर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा प्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् / कल्पान्तेष्वपि न प्रयाति निधन विद्याख्यमन्तर्धनं येषां तान्प्रति मानमुज्झत नृपाः कस्तै: सह स्पर्धते // 8 अम्भोजिनीवननिवास क्लिासमेव हंसस्य हन्ति नितरां कुपितो विधाता / न त्वस्य दुग्धजलभेदविघौ प्रसिद्धां वैदग्ध्य कीर्तिमपहर्तुमसौ समर्थः // 9 //