SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ સંસ્કૃત બીજી ચોપડી સ્પ૭ अथ प्रातर्यावदागत्य पश्यति तावहीनारमेकं शरावे दृष्टवान। एवं च प्रतिदिनमेकाकी समागत्य तस्मै क्षीरं ददात्येकैकं च दीनारं गृह्णाति / ___ अथैकस्मिन्दिवसे वल्मीके क्षीरनयनाय पुत्रं नियुज्य ब्राह्मणो ग्रामं जगाम / पुत्रोऽपि क्षीरं तत्र नीत्वा संस्थाप्य च पुनगृहं समायातः / दिनान्तरे तत्र गत्वा स दीनारमेकं दृष्ट्वागृहीत्वा च चिन्तितवान् / नूनं सौवर्णदीनारपूर्णीऽयं वल्मीक स्तदेनं भुजंग हत्वा सर्वमेकवारं ग्रहीष्यामि / एवं संप्रधार्यान्ये: क्षीरं ददता ब्राह्मणपुत्रेण सर्पो लगुडेन शिरसि ताडित: / स च दैववशादमुक्तजीवितो रोषात्तं ब्राह्मणकुमारं तीव्रविषैर्दशनस्तथादशद्यथा स सद्यः पञ्चत्वमुपागतः / / अथ पुनरपि ब्राह्मणः प्रत्यूषे क्षीरं गृहीत्वा तत्र गत्वा तारस्वरेण सर्पमस्तोत् / तदा सो वल्मीकान्तीन एव ब्राह्मणं प्रत्युवाच / त्वं लोभादत्रागत: पुत्रशोकमपि विहाय / इतः परं तव मम च प्रीति चिता / तंव पुत्रेण यौवनोन्मत्तेनाहं ताडितो मया च स दष्टः / कथं मया लगुडप्रहारो विस्मर्तव्यस्त्वया च पुत्रशोकदुःखं कथं विस्मर्तव्यम् / इत्युत्क्वा बहुमूल्यं हीरकमणि तस्मै दत्वा पुनस्त्वया नागन्तव्यमिति कथयित्वा विवरं प्रविष्टः। ब्राह्मणोऽपि मणिं गृहीत्वा पुत्रबुद्धिं निन्दनस्वगृहमागतः /
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy