________________ 256 સંસ્કૃત બીજી ચોપડી अथ यावत्किचिदध्वान्तरं गच्छति तावद्वितीयो धृतः संमुखः समुपेत्य तमुवाच / भो ब्रह्मन् कष्टं कष्टं यद्यपि वल्लभोऽयं ते सारमेयस्तथापि स्कन्धमारोपयितुं न युज्यते / अथासौ सकोपमिदमाह / भोः किमन्धो भवान्यत्पशु मार मेयं वदसि / सोऽब्रवीद्भगवन् मा कोपं कुर्वज्ञामान्म याभिहितम् / त्वमात्मरुचितं समाचरेति। ___ अथ यावत्स्तोकं वन्तिरं गच्छति तावत्तृतीयोऽन्य वेषधारी धूर्तः संमुखः समुपेत्य तमुवाच / भो अयुक्तमेतद्यत्त्वं सारमेयं स्कन्धाधिरूढं नयसि तत्त्यज्यतामेष यावदन्यः कश्चिन्न पश्यति / अथासौ बहु विमृश्य तं पशुं सारमेयमेव मन्यमानो भयाद भूमों प्रक्षिप्य स्वगृहमुद्दिश्य पलायितः। ततस्ते त्रयो मिलित्वा तं पशुमादाय प्रतस्थिरे। ब्राह्मणभुजंगमयोः / अस्ति कस्मिंश्चिदधिष्ठाने हरिदत्तो नाम ब्राह्मणः / तस्य च कृषि कुर्वतः सदेव निष्फलः कालोऽतिवर्तते / अथैकस्मिन्दिरसे स ब्राह्मणोघर्तिः स्वक्षेत्रमध्ये वृक्षच्छायायां प्रसुप्तः। अनतिरे वल्मी. कोपरि प्रसारितं भीपणं भुगम दृष्ट्वासो चिन्तयामास / नूनमेषा क्षेत्रदेवता कदाचिदपि न पूजिता तेनेनं मे कृषिकर्म विफलीभवति तदहमस्याः पूजामय करिष्यामि / इत्यवधार्य कृतोऽपि श्रीर याचित्वा शरावे निक्षिप्य वल्मीकान्तिकमुपगम्योवाच / गो: क्षेत्र. पाल मयतावन्तं कालं न ज्ञातं यत्त्वमत्र बससि तेन पूजा न कृता तत्सांप्रत क्षमस्येति / एवमुत्क्वा दुग्धं निवेद्य गृहाभिमुख प्रायात् /