________________ 255 સંસ્કૃત બીજી પડી इति / स इन्द्रं तुष्टाव / तस्मा इन्द्रः स्तूयमानः प्रीतो मनसा हिरण्यरथं ददौ / तमिन्द्र उवाचाश्विनौ नु स्तुह्यथ त्योत्स्रनाम इति / सोऽश्विनौ तुष्टाव तमश्विना ऊचतुरुषसं नु स्तुह्यथ त्वोत्न. श्यामइति / स उषसं तुष्टाव / तस्य * ह स्मय॑च्युक्तायां विपाशो मुमुचे / कनीय ऐक्ष्वाकस्योदरं भवति / उतमस्यामेवच्युक्तायां विपाशो मुमुचे / अगद ऐश्वाक आस / 2. त्रयाणां धूर्तानाम् / कस्मिंश्चिदधिष्ठाने मित्रशर्मा नाम ब्राह्मणः प्रतियसति स्म / स कदाचिन्माषमासे पशुप्रार्थनाय ग्रामान्तरं गतः / तत्र तेन कश्चिद्यजमानो याचितः / भो यजमान आगामिन्याममावास्यायां यक्ष्यामि यज्ञं तद्देहि मे पशुमेकम् / अथ तेन तस्य शास्त्रोक्तः पीवरतनुः पशुः प्रदत्तः / सोऽपि तं समर्थमितश्चेतश्च गच्छन्तमवलोक्य स्कन्धे कृत्वा सत्वरं स्वपुराभिमुखः प्रतस्थे। ___ अथ तस्य गच्छतो मार्ग प्रयो धूर्ताः संमुखा बभूवुः / तैश्च तादृशं पीवरतन पशु स्कन्धमारूढमवलोक्य मिथोऽभिहितम् / अहो अस्य पशोर्भक्षणादद्यतनो हिमपातो व्यर्थतां नीयते / तदेनं वञ्चयित्वा पशुमादाय शीतत्राणं कुर्मः / / ____ अथ तेषामेकतमो वेषपरिवर्तनं विधाय संमुखो भूत्वा तमुचे / भो भोः किमेवं जनविरुद्ध हास्य कार्यमनुष्ठीयते यदेष सारमेयोऽपषित्र: स्कन्धारूढो नीयते / ततश्च तेन कोपाभिभूतेनाभिहितमहो किमन्धो भवान्यत्पशुं सारमेयं प्रतिपादयसि / सोऽब्रवीद्ब्रह्मन् कोपस्त्वया न कार्यों यथेच्छ गम्यतामिति / શુનઃપે પ્રાતઃકાળના સતવન કરવામાં ગાયેલા કીર્તન બદલ આ શબ્દ મૂકેલ છે. -