________________ સંસ્કૃત બીજી ચોપડી 18 संपाद्य चन्द्रापीडमूर्ती मूर्तिमतीव शोकवृत्तिरार्तरूपा रूपान्तर. मिव तत्क्षणेनैवोपगता गतजीवितेव शून्यमुखी मुखावलोकिनी चन्द्रापीडस्य पीडोत्पीडितहृदयापि रक्षन्ती बाष्पमोक्षमुद्दामवृत्तेः शोकादपि मरणादपि च कष्टतमामवस्थामनुभवन्ती तथैवाले समारोपितचन्द्रापीडचरणद्वया दूरागमनखिन्नेनापि बुभुक्षितेनाप्यप्रतिपन्नस्नानपानभोजनेन मुक्तात्मना राजपुत्रलोकेन स्वपरिजनेन च सह निराहारा कादम्बरी तं दिवसमनयत् / सज्जन्ति कुञ्जरघटाः खलु तत्प्रयाणे तं संततं युधि परिष्वजते जयश्रीः / चेत: समासजति तस्य गुणानुरागाद्विधाविशुद्धहृदये विदुषां समूहे / यं न स्पृशन्त्येनमचिन्त्यतत्वं दुरन्तधामानमनन्तरूपम् / मनोवचोवृत्तय आत्मभाजांस एव पूज्यः परमः शिवोनः।। अयं निजः परो वेत्ति गणना लघुचेतसाम् / उदारचरितानां तु वसुधैव कुटुम्बकम् // दंष्ट्राभङ्गं मृगाणामधिपतय इव व्यक्तमानावलेपाः / नाशाभङ्गं सहन्ते नृवर नृपतयस्त्वादृशाः सार्वभौमाः।। | ગુજરાતી વાક્યો 1. મેં પાંચ છ માણસ પંચાવન કરતાં વધારે ગાયો અને લગભગ સાઠ કુતરાઓ રસ્તા પર જોયાં. 2. આ અંગે દેશનો રાજા છે, જેને પ્રેમ સ્વર્ગની અસરાઓ ઈચ્છે છે. 3. શ્રી અને સરસ્વતી દેવીઓ જેમનાં રહેઠાણ સ્વાભાવિક રીતે જુદાં છે, તેઓ તેનામાં એકઠાં રહે છે. 13.