________________ 172 સંસ્કૃત બીજી ચોપડી સંસ્કૃત વાક્યો ऋग्वेदात्सामवेदस्य महिमा भूयान् / / यशवर्मायोध्यां गच्छन्नध्वनोऽर्धाद्भूयोऽतिक्रम्याश्राम्यत् / कृष्णस्य सुभद्रा यवीयसी स्वसा। सर्वेषु कुसुमेषु शिरीषकुसुमं म्रदिष्ठम् / निःश्रेयसाय कर्मपथाज्ज्ञानमार्गः साधीयान् / श्रेष्ठस्तु सर्वेषां भक्तिमार्गः / परमात्माणोरप्यणीयान्महतोऽपि महीयान्वतते / धार्तराष्ट्रेभ्यः पाण्डवाः कृष्णसाहाय्यादबलीयांसः किंतु तेषां योधसमाजो गरीयान् / ' दुःखितस्य वृत्तान्तश्रवणेनार्दीभवन्ति हृदयान्यनुकम्पिनां महात्मनाम् / यो यज्ञकर्माणि यथाविधि करोति स प्रजावान्पशुमांस्तेजस्वी ब्रह्मवर्चसी यशस्वांश्च भवति / ' विष्णुशर्मण एकपञ्चाशत्पुत्रा आसन् / तेषां ये मध्यमाद्देवदत्ताज्यायांसःपञ्चविंशतिस्ते कनीयोभिः पञ्चविंशत्याकलहं चक्रुः। __ सर्वासु नदीषु भागीरथी द्राघिष्ठा विस्तारे वरिष्ठा च / तस्याः सलिलं यमुनायाः शुचितरम् / पर्वतेषु हिमालयः प्रथिष्ठः। अहो दीप्तिमतोऽपि विश्वसनीयतास्य राज्ञो वपुषः / ईदृशी मे मन्दभाग्यता यन्न केवलं भर्तुविरहो दारकयोरपि। हा सौम्य हनुमन्क्क पुनरत्त्वादशस्य साधोर्महोपकारिणः संभवोऽस्मिञ्जगति / नैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः / नेयं मे जटा किं तु वेणीकृतः कचानां कलाप इत्यब्रवीत्काचित्स्त्री। दासीभूतां सर्पाणां जनन्याः सेवां कुर्वती स्वमातरं बन्धनान्मुमोच गरुडः /