________________ ૧પ૦ સંસ્કૃત બીજી ચેપડી तांस्ततोऽसुरा अजयन् / ते प्रतीच्यां दिशि येतिरे तांस्ततोऽसुरा अजयन् / त उदीच्यां दिशि येतिरे तांस्ततोऽसुरा अजयन् / आदित्यचन्द्रावनिलोऽनलश्च ___द्यौर्भूमिरापो हृदयं यमश्च / अहश्च रात्रिश्च उभे च संध्ये धर्मोऽपि जानाति नरस्य वृत्तम् // अवश्यं नश्वरे देहे दुर्दमे च यमे द्विषि / / हास्यं नास्याद्विनिर्याति यत्पुंसामिदमदभुतम् // सत्यं संमृतिगर्तेयं दुःखैः पूर्णा निरन्तरम् / यतस्तद्वयतिरेकेण नान्यत्किचिदिहाप्यते // अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ / पथि संगतमेवैतद भ्राता माता पिता सखा // हृदि विद्ध इवात्यर्थ यया संतप्यते जनः / पीडितोऽपि हि मेधावी न तां वाचमुदीरयेत् / / तस्य पृथ्वी प्रसूतेऽर्थ धर्ममर्थः प्रसूयते / प्रसौति विजयं धर्मः स च प्रसवति श्रियम् / / गर्हते न तथा श्वानं चाण्डालं च न गर्हति / गर्हयत्याहवे भग्नं यथासौ क्षत्रियं नरम् // हते भर्तरि वैक्लव्याक्लिन्दन्ति तदरिस्त्रियः / अजौरश्रुभिस्तासां क्लिद्यन्ति नयनानि च // ददात्यसौ धनं भूरि ब्राह्मणेभ्यो दिने दिने / ददते ब्राह्मणास्तस्मै संतुष्टा नित्यमाशिषः / / असौ स्वप्नायमानोऽपि कत्थते नात्मनो गुणान् / कथयन्ति जना एव तस्य तानद्भुतान् भुवि //