________________ 72 अभिज्ञानशाकुन्तलम् प्रथमोराजा-( स्वगतं - ) कथमिदानीमात्मानं निवेदयामि, कथं वोऽऽत्मनः परिहारं करोमि ? / भवतु / एवं तावत् / ( प्रकाशम्-) भवति ! वेदविदस्मिं राज्ञः पौरवस्य नगरधर्माधिकारे नियुक्तः, पुण्याश्रमदर्शनप्रसङ्गेन धर्मारण्यमिदमायातः / भवतु = अस्तु / एवं तावत् = इत्थं कथयामि / श्लेषेण ब्राह्मणमात्मानं निदिशामि। प्रकाशं = प्रकटं। वेदवित् = विद्वान् / स च क्षत्रियो, ब्राह्मणश्च भवतीति स्वजातिहिता। पौरवस्य = ( पुरूणां देशविशेषाणां रोज्ञः-पौरवस्य ) मत्पितुः, दुष्यन्तस्य वा, नगरधर्माधिकारे=नगरधर्माधिकरणे, प्रधानन्यायालयाध्यक्षपदे वा, राज्ये वा] / नियुक्तः = अधिकृतः। ब्राह्मणोऽपि धर्माधिकारी भवति, राजापि। धर्मसंरक्षणे स्वपित्रा, प्रजापतिनैव वा नियुक्तः / अनेन वाक्येन विप्रोऽयं नगरधर्माधिकारी, राजा वाऽयमिति न स्फुटम् / इत्थं श्लेषेणाऽऽत्मप्रकटनं, गोपनञ्च कृतम् / धर्मवद्ध कमरण्यं, धर्मस्य = धर्मानुष्ठानस्य वा अरण्यधर्मारण्यं, तस्य दर्शनं, तस्य प्रसङ्गेन = पुण्याश्रमदर्शनार्थम् / इदञ्च पताकास्थानम् / तदुक्तं विश्वनाथेन 'व्यर्थो वचनविन्यामः सुश्लिष्टः काव्ययोजितः / प्रधानार्थान्तराक्षेपी पताकास्थानकं परम् // ' इति / राजा-(मन ही मन-) मैं अब अपने को कैसे प्रकट करूँ ? / और छिपाउँ भी तो कैसे छिपाऊँ ? / अच्छा ! / इस प्रकार कहता हूँ। (प्रकट में) श्रीमतीजो ! मैं तो पौरव राजा ( अपने पिता) का आज्ञाकारी (पुत्र ) एवं वेदवित् हूँ और उनके ( अपने पिता का या राजा का ) नगर की रक्षा करने के अधिकार पर नियुक्त एक अधिकारी हूँ। और पुण्य आश्रमों के देखने की इच्छा से ही इस धर्मारण्य ( तपोवन ) में आगया हूँ। 1 'आत्मापहारम्'। 2 'एवं तावदेनां वक्ष्ये'। 3 'यः पौरवेण राज्ञा मत्पित्रा धर्माधिकारे नियुक्तः सोऽहमाश्रमिणामविघ्नक्रियोपलम्भाय धर्मारण्यमिदमायातः पा०॥