________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् यतो यतः षट्चरणोऽभिवर्त्तते, . . ततस्ततः प्रेरितवामलोचना / विवर्तितभूरियमद्य शिक्षते, भयादकामाऽपि हि दृष्टिविभ्रमम् // 24 // 'अपि च-( सासूमिव-) चलाऽपोङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं, ___रहस्याख्यायीव स्वनसि मृदु कर्णाऽन्तिकचरः / रमणीयतामेवोपन्यस्यति—यत इति / हि = यतः, यतो यतः = यस्यां यस्यां दिशि / सप्तम्यर्थे सार्वविभक्तिकस्तसिल / परे तु-यतो-यतः = यं यं प्रदेश, द्वितीयार्थे तसिल / अभियोगे द्वितीया / षट् चरणा यस्यासौ षट्चरणः = भ्रमरः, अभिवर्त्तते = अनुधावति / ततस्ततः = तत्र तत्र, प्रेरिते = प्रक्षिप्ते, वामे = सुन्दरे, वक्रे वा, लोचने = नेत्रे-यया सा, विवर्तिता = तिर्यगुन्नमिता, भ्रूः = भ्रुकुटिया सा, इयं = शकुन्तला, अद्य = इदानीम् . नास्ति कामः = अभिलाषो यस्याः साअपि, अनिच्छयाऽपि दृष्टविभ्रमं = विवर्त्तनं, कटाक्ष-निक्षेपकलाम् / शिक्षते = अभ्यस्यति / [सकामत्वरूपकारणाऽभावेऽपि, कार्यस्य शिक्षणस्य सत्त्वाद्विभावनाऽलङ्कारः, उत्प्रेक्षा च / तदनयोः संसृष्टिः] // 24 // .. सासूयमिव = सोपालम्भमिव / चलापागामिति / चलोऽपाङ्गो यस्याः सा, ता = चञ्चललोचनान्ताम् / 'अपाङ्गौ नेत्रयोरन्तौ' इत्यमरः / वेपथुरत्त्यस्याः .. क्योंकि जिधर 2 यह भौंरा जाता है, उधर ही यह अपने सुन्दर नेत्रों से, भौंह को तिर्शी तान कर देखती है, मानों भ्रमर के भय से, विना इच्छा के भी यह नेत्रों का सविलास विक्षेप (सकटाक्षनिरीक्षण) करना ही सीख रही है // 24 // __ और भी-(ईर्ष्यायुक्त असहन भाव से-) हे भ्रमर !तूं इस मनोहारिणी बाला के कटाक्षों से देखा जाकर, बार 2 इसके काँपते हुए अङ्गों का स्पर्श करता है / (कृतार्थ कामी भी कान्ता कटाक्षों से देखा 1 क्वचिन्न / 2 'चलापाङ्ग दृष्टः' /