________________ 60 अभिज्ञानशाकुन्तलम्- [प्रथमो-तथापि तत्त्वत एंवैनामुपलप्स्ये। शकुन्तला-( ससम्भ्रमम् ) अम्मो ! सलिअसेअसम्भमुग्गदो णोमालिअं उज्झिम वअणं मे महुअरो अहिवदृदि ( इति भ्रमरबाधां २नाटयति)। [( ससम्भ्रमम् / अम्मो ! सलिलसेकसंभ्रमोद्गतो नवमालिकामुज्झित्वा वदनं मे मधुकरोऽभिवतते ( इति भ्रमरबाघां नाटयति ) ] / राजा-(-सस्पृहं विलोक्य ) साधु ! बाधनमपि रमणीयमस्याः। तथापि = युक्तिभिरन्तःकरणप्रवर्त्तनैश्च मत्परिग्रहक्षमेयमिति निर्धारणे कृते. ऽपि / तत्त्वत एव = याथार्येनैव, एनां = शकुन्तलाम् , उपलप्स्ये = ज्ञास्यामि, यदियं मत्परिग्रहयोग्या न वेति / ____ ससम्भ्रमं = ससाध्वसम् / 'संभ्रमः साध्वसेऽपि स्यात्संवेगाऽऽदरयो' रिति मेदिनी / अम्मो ! = अत्याहितम् / 'विस्मये, दुःसहे, अम्मो नित्यं स्त्रीभिः प्रयुज्यते' इति भरतः। सलिलस्य = जलस्य, यः सेकः = अभिषेकः, तेन-सम्भ्रमेण = सहसा, उद्वतः = उत्पतन् , उज्झित्वा = परित्यज्य, मे = मम, वदनं = मुखम्, अभि = प्रति, मधुकरः = भ्रमरः, वर्त्तते = समागच्छति / [प्रतिवर्तते इत्यस्य अनुवर्तते इति वार्थः] / इति = इत्युक्त्वा, भ्रमरस्य बाधां = भ्रमराक्रमणपीडां, नाटयति = अभिनयति / [नाट्यशालास्थितान् सभ्यान् तथा स्वपीडामभिनीय दर्शयति / - स्पृहया सहितं यथा स्यात्तथा-सस्पृह = साभिलाषम् , अस्या बाधनमपि = पीडाऽपि, साधु = कामं, रमणीयं = मनोहारि / तो भी मैं इस बात का ठीक 2 निर्णय अवश्य करूंगा, कि-यह किस वर्ण की कन्या है ? यह ब्राह्मण जाति की है, या किसी अन्य जाति की। . शकुन्तला-(संभ्रम = घबड़ाहट के साथ ) अरी मैया री मैया ! जल के छींटे लगने से सहसा नवमालिका से उड़कर यह भौंरा मेरे मुख पर ही मंडराने लगा है। (भ्रमर-बाधा प्रदर्शित करती हुई इधर-उधर दौड़ती है)। . राजा-(बड़े चाव व प्रेम से देखकर ) वाह ! इस (शकुन्तला ) की यह घबड़ाहट भी कैसी रमणीय मालूम होती है। 1 'तत्त्वत एनां' / 2 'निरूपयति' / 3 'राजा-( सस्पृहं-)।