________________ ऽङ्कः] . अभिज्ञानशाकुन्तलम् 635 राजा-भगवन् ! अत्र खलु मे वंशप्रतिष्ठा / मारीचः-तथा भाविनमेनं चक्रवर्त्तिनमवगच्छतु भवान् / पश्य.. रथेनानुद्वातस्तिमितगतिना तीणजलधिः, पुरा सप्तद्वोपां जयति वसुधामप्रतिरथः / इहायं सत्त्वानां प्रसभदमनात्सवदमनः, पुनर्यास्यत्याख्यां 'भरत' इति, लोकस्य भरणात् // 33 // राजा-भगवता कृतसंस्कारे सर्वमस्मिन्वयमाशास्महे / अदितिः-भअवं ! इमीए दुहदुमणोरसंपत्तीए कण्णो वि दाव सुदवित्थारो करीअदु / दुहिदुवच्छला मेणआ इह एव्व उपचरन्ती चिट्टदि / [भगवन् ! अनया दुहितृमनोरथसंपत्त्या कण्वोऽपि तावच्छ्रतविस्तारः क्रियताम् / दुहितृवत्सला मेन के हैवोपचरन्ती तिष्ठति ] / शकुन्तला-(आत्मगतम् -- ) मणोरहो क्खु मे भणिदो भअवदीए। [ मनोरथः खलु मे भणितो भगवृत्या ] / मारीचः-तपःप्रभावात्प्रत्यक्षं सर्वमेव तत्रभवतः / राजा-अतः खलु मम नाऽतिद्धो मुनिः / मारीचः-तथाप्यसौ प्रियमस्माभिः प्रष्टव्यः / कः कोऽत्र भोः ? / (प्रविश्य-) शिष्यः-भगवन् ! अयमस्मि ! मारीचः-गालव ! इदानीमेव विहायसा गत्वा मम वचनात्तत्रभवते कण्वाय प्रियमावेदय, यथा-पुत्रवती शकुन्तला तच्छापनिवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहोते'ति ! शिष्यः-यदाज्ञापयति भगवान् ( -इति निष्क्रान्तः ) / मारीचः-वत्स ! त्वमपि स्वापत्यदारसहितः, सख्युराखण्डलस्य रथमारुह्य ते राजधानी प्रतिष्ठस्व / राजा-यदाज्ञापयति भगवान् / मारोंचः-वत्स ! किं ते भूयः प्रियमुपकरोमि ? / ... 1 'श्रावयितव्यः' /