________________ 634 दाक्षिणात्यपाठानुसारि [ सप्तमोयथा गजो नेति समक्षरूपे, __तस्मिन्नपक्रामति संशयः स्यात् / पदादि दृष्टा तु भवेत्प्रतीति स्तथाविधो मे मनसो विचारः // 31 // मारीचः-वत्स ! अलमात्माऽपराधशङ्कया। संमोहोऽपि त्वय्यनुपपन्नः / श्रृयताम् राजा-अवहितोऽस्मि / मारीचः-यदैवाप्सरस्तीर्थावतरणात्प्रत्यक्षवैक्लव्यां शकुन्तलामादाय मेनका दाक्षायणीमुपगता, तदैव ध्यानादवगतोऽस्मि-'दुर्वाससः शापादियं तपस्विनी सहधर्मचारिणी त्वया प्रत्यादिष्टा, नान्यथेति / स चाथमङ्गुलीयकदर्शनावसानः / राजा-- ( सोच्छ्रासम्-) एष वचनीयान्मुक्तोऽस्मि / शकुन्तला-(स्वगतम्-) दिट्ठिआ अकारणपच्चादेसी ण अजउत्तो / ण हु सत्तं अत्ताणं सुमरेमि / अहवा पत्तो मए स हि साबो विरहसुण्णहिअआए ण विदिदो, अदो सहीहि संदिट्ठसि भत्तुणो अङ्गुलीअअं इंसइदव्वं ति / [दिष्टयाऽकारणप्रत्यादेशी नाऽऽर्यपुत्रः। न खलु शप्तमात्मानं स्मरामि / अथवा प्राप्तो मया स हि शापो, विरहशून्यहृदयया न विदितः / अतः सखीभ्यां संदिष्टाऽस्मि-'भरिङ्गुलीयकं दर्शयितव्य'मिति ] / ___ मारीचः-वत्से ! चरितार्थाऽसि / सहधर्मचारिणं प्रति न त्वया मन्युः कार्यः / पश्य शापादसि प्रतिहता स्मृतिरोधरूक्षे, भत्तयपेततमसि प्रभुता तवैव / छाया न मूर्च्छति मलोपहतप्रसादे, शुद्धे तु दर्पणतले सुलभावकाशा // 32 // राजा-यथाऽऽह भगवान् / मारीचः-वत्स ! कञ्चिदभिनन्दितस्त्वया विधिवदस्माभिरनुष्ठितजातकर्मा पुत्र एष शाकुन्तलेयः ? / 1 'विकारः' पा०। 2 'प्रत्यादेशविक्लवां' /