________________ ऽकः] अभिज्ञानशाकुन्तलम् 633 राजा-(उपगम्य-) उभाभ्यामपि वासवनियोज्यो दुष्यन्तः प्रणमति / मारीच:-वत्स ! चिरं जीव / पृथवीं पालय / अदितिः-वच्छ ! अप्पडिरहो होहि / [ वत्स ! अप्रतिरथो भव ] / शकुन्तला-दारअसहिदा वो पादवन्दणं करेमि / [दारकसहिता वां पादवन्दनं करोमि ] / मारीच:-वत्से! आखण्डलसमो भर्ता, जयन्तप्रतिमः सुतः / आशीरन्या न ते योग्या, पौलोमीसदृशी भव // 28 // अदितिः-जादे ! भत्तणो अभिमदा होहि / अवस्सं दीहाऊ वच्छओ उहअकुलणन्दणो होदु / उवविसह। [ जाते ! भतरभिमता भव / अवश्यं दीर्घायुर्वत्स उभयकुलनन्दनो भवतु / उपविशत ] / (सर्वे-प्रजापतिमभित उपविशन्ति ) / मारीचः-( एकैकं निर्दिशन्-) दिष्ट्या शकुन्तला साध्वी, सदपत्यमिदं, भवान् ! श्रद्धा, वित्तं, विधिश्चेति त्रितयं तत्समागतम् // 29 // राजा-भगवन् ! -- प्रागभिप्रेतसिद्धिः, पश्चाद्दर्शनम् / अतोऽपूर्वः खलु वोऽनुग्रहः ! / कुतः ? उदेति पूर्व कुसुमं, ततः फलं, घनोदयः प्राक , तदनन्तरं पयः। .. निमित्त-नैमित्तिकयोरयं क्रम स्तव प्रसादस्य पुरस्तु संपदः ! // 30 // मातलिः-एवं विधातारः प्रसीदन्ति / राजा-भगवन् ! इमामाज्ञाकरी वो गान्धर्वेण विवाहविधिनोपयम्य कस्यचित्कोलस्य बन्धुभिरानीता स्मृतिशैथिल्यात्प्रत्यादिशनपराद्धोऽस्मि तत्रभवतो युष्मत्सगोत्रस्य कण्वस्य / पश्चादङ्गुलीयकदर्शनादूढपूर्वा तदुहितरमवगतोऽहम् / तचित्रमिव में प्रतिभाति /