________________ ऽङ्कः] . अभिज्ञानशाकुन्तलम् 631 [ वत्स ! ते भागधेयानि पृच्छ ] / राजा-(शकुन्तलायाः पादयोः प्रणिपत्य-) सुतनु ! हृदयात्प्रत्यादेशव्यलीकमपैतु ते, किमपि मनसः संमोहो मे तदा बलवानभूत् / प्रबलतमसामेवप्रायाः शुभेषु प्रवृत्तयः, स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया // 24 // शकुन्तला उट्टेदु अज उत्तो / णूणं मे सुअरिअप्पडिबन्धों पुराकिद तेसु दिअहेसु परिणाममुहं आसि, जेण साणुक्कोसो वि अजउत्तो मई विरसो संवुत्तो। [ उत्तिष्ठत्वार्यपुत्रः / नूनं मे सुचरितप्रतिबन्धकं पुराकुतं तेषु दिवसेषु परिणाममुखमासीयेन सानुक्रोशोऽप्यार्यपुत्रो मयि विरसः संवृत्तः] / (राजा- उत्तिष्ठति ) / शकुन्तला-अह अहं अजउत्तेण सुमरिदो दुक्खभाई अभं जणो ? / [ अथ कथामार्यपुत्रेण स्मृतो दुःखभाग्ययं जनः 1] / राजा-उद्धृतविषादशल्यः कथयिष्यामि / मोहान्मया सुतनु ! पूर्वमुपेक्षितस्ते, यो बाष्पबिन्दुरधरं परिबाधमानः / तं तावदाकुटिलपक्ष्मविलग्नमद्य बाष्पं प्रमृज्य, विगतानुशयो भवेयम् // 25 / / (-इति यथोक्तमनुतिष्ठति ) / . शकुन्तला-( नाममुद्रां दृष्ट्वा-) अजउत्त ! एवं ते अङ्गुलीम ? / [ आर्यपुत्र ? इदं तेऽङ्गुलीयकम् ?] / राजा-अस्मादमुलीयोपलम्भात्खलु स्मृतिरुपलब्धा / शकुन्तला-विसमें किदं णेण जं तदा अज्जउत्तस्स पच्चभकाले दुल्लहं आसि / [विषमं कृतमनेन, यत्तदार्यपुत्रस्य प्रत्ययकाले दुर्लभमासीत् ] / राजा-तेन हि-ऋतुसमवायचिह्न प्रतिपद्यतां लता कुसुमम् / शकुन्तला-णं से विस्ससामि / अजउत्तो एब्व णं धारेदु / [ नास्य विश्वसिमि / आर्यपुत्र एवैतद्धारतु] / (ततः प्रविशति मातलिः)।