________________ दाक्षिणात्यपाठानुसारि- [सप्तमोराजा-(शकुन्तलां विलोक्य-) अये ! सेयमत्रभवती शकुन्तला ! / यैषावसने परिधूसरे वसाना, नियमक्षाममुखी, धृतैकवेणिः / अतिनिष्करुणस्य शुद्धशीला, मम दीर्घ विरहव्रतं बिभर्ति // 12 // शकुन्तला-(पश्चात्तापविवर्ण राजानं दृष्ट्वा-) ण क्खु अज्जउत्तो विअ ! / तदो को एसो दाणिं किदरक्खामङ्गलं दारअं मे गत्तसंसग्गेण दूसेदि ? / [ न खल्वार्यपुत्र इव ! / ततः क एष इदानीं कृतरक्षामङ्गलं दारकं मे गात्रसंसर्गेण दूषयति ?] / बालक:-( मातरमुपेत्य-) अज्जुए ! एसो कोवि पुरिसो मं पुत्त त्ति आलिङ्गदि / [मातः ! एष कोऽपि पुरुषो मां पुत्र इत्यालिङ्गति ! ] / राजा-प्रिये ! क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तं यदहमिदानीं त्वया प्रत्यभिज्ञातमात्मानं पश्यामि / शकुन्तला-(आत्मगतम्-) हिअअ ! अस्सस अस्सस / परिच्चत्तमच्छरेण अणुअम्पिअ हि देव्वेण / अजउत्तो कस्खु एसो। [हृदय ! आश्वसिहि आश्वसिहि / परित्यक्तमत्सरेणाऽनुकम्पिताऽस्मि दैवेन / आर्यपुत्रः खल्वेषः]। राजा-प्रिये ! स्मृतिभिन्नमोहतमसो दिष्टया प्रमुखे स्थिताऽसि मे सुमुखि ! / उपरागान्ते शशिनः समुपगता रोहिणी योगम् / / 22 // शकुन्तला-जेदु जेदु अज्जउत्तो। (-इत्य?क्ते बाष्पकराठी विरमति)। [ जयतु जयत्वार्यपुत्रः] / राजा-सुन्दरि ! बाष्पेण प्रतिषिद्वेऽपि जयशब्दे, जितं मया / यत्ते दृष्टमसंस्कारपाटलोष्टपुटं मुखम् / / 23 // बाल:-अज्जुए ! को एसो ? / [ मातः ! क एषः ] / शकुन्तला-वच्छ ! दे भाअहेआई पुच्छेहि /