________________ ऽङ्कः] अभिज्ञानशाकुन्तलम् 607 राजा-ईशं हृदयविनोदनस्थानम् / तत्तमेव मार्गमादेशय / विदूषकः-इदो इदो भवं / [ इतो इतो भवान् ] / (उमौ-परिक्रामतः / सानुमती-अनुगच्छति)। विदूषकः-एसो मणिसिलापट्टअसणाहो माहवीमण्डवो उपहाररमणिज्जदाए णिस्संस साअदेण विअ णो पडिच्छदि / ता पविसिअ णिसीददु भवं / [एष मणिशिलापट्टकसनाथो माधवीमण्डप उपहाररमणीयतया निःसंशय स्वागतेनेव नौ प्रतीच्छति / तत्प्रविश्य निषोदतु भवान् ] / __ (उभौ-प्रवेशं कृत्वोपविष्टौ)। सानुमती-लदासंस्सिदा देखिस्सं दाव सहीए पडिकिदिं। तदो से भत्तुणो बहुमुहं अणुराअं णिवेदइस्सं ( -इति तथा कृत्वा स्थिता ) / [लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतिम् / ततोऽस्या भर्त्तर्बहुमुखमनुरागं निवेदयिष्यामि ] | राजा--सखे ! सर्वमिदानीं स्मरामि शकुन्तलायाः प्रथमवृत्तान्तम् / कथितवानस्मि भवते च। स भवान्प्रत्यादेशवेलायां मत्समीपगतो नासीत् / पूर्वमपि न त्वया कदाचित्संकोर्तितं तत्रभवत्या नाम ? / कच्चिदहमिव विस्मृतवानसि त्वम् ? / विदूषकः-णं विसुमरामि / किंतु सव्वं कहिअ अवसाणे उण तुए 'परिहासविअप्पओ एसो ण भूदत्थो' त्ति आचक्खिदं / मए वि मिपिण्डबुद्धिणा तह एब्व गहीदं / अहवा-भविदम्वदा क्खु बलवदी। [ न विस्मरामि / किंतु सर्व कथयित्वाऽवसाने पुनस्त्वया 'परिहासविजल्प एष, न भूतार्थ' इत्याख्यातम् / मयाऽपि मृत्पिण्डबुद्धिना तथैव गृहीतम् / अथवा भवितव्यता खलु बलवती ] / सानुमती--एव्वं णेदं / [ एवमेवैतत् ] / राजा-(ध्यात्वा-) सखे ! त्रायस्व माम् / विदूषकः-भो! किं एवं ? / अणुववणं क्खु ईदिसं तुइ। कदा वि सप्पुरिसा. सोअवत्तव्वा ण होन्ति / णं पवादे वि णिक्कम्पा गिरीओ / [ भोः ! किमेतत् ? / अनुपपन्नं खल्वोदृशं त्वयि / कदाऽपि सत्पुरुषाः शोकवक्तव्या न भवन्ति / ननु प्रवातेऽपि निष्कम्पा गिरयः ] | .