________________ 606 दाक्षिणात्यपाठानुसारि-. [षष्ठो राजा-वेत्रवति ! मद्वचनादमात्यमार्यपिशुनं ब्रूहि-'चिरप्रबोधनाच संभावितमस्मामिरय धर्मासनमध्यासितुम् / यत्प्रत्यवेक्षितं पौरकार्यमार्येण तत्पत्रमारोप्य दीयतामिति / प्रतीहारी–जं देवो आणवेदि / (-इति निष्क्रान्ता)। [ यद्देव आज्ञापयति / राजा-वातायन ! त्वमपि स्वं नियोगमशून्यं कुरु / कञ्चकी-यदाज्ञापयति देवः / (-इति निष्क्रान्तः)। विदूषकः-किदं भवदा णिम्मच्छिअं। संपदं सिसिरातवच्छे अरमणीए इमस्सि पमदवणुदेसे अत्ताणं रमइस्ससि / / [कृतं भवता निर्मक्षिकम् / सांप्रतं शिशिरातपच्छेदरमणीयेऽस्मिन्प्रमदवनोदेशे आत्मानं रमयिष्यसि ] / राजा-वयस्य ! 'रन्ध्रोपनिपातिनोऽनर्था' इति यदुच्यते, तदव्यभिचारि वचः / कुतः ? मुनिसुताप्रणयस्मृतिरोधिना, मम च मुक्तमिदं तमसा मनः / मनसिजेन सखे ! प्रहरिष्यता, धनुषि चूतशरश्च निवेशितः ! // 8 // विदूषकः--चिट्ठ दाव / इमिणा दण्डकटेण कन्दप्पवाहि गासेस्सं / (-इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमच्छिति)। [ तिष्ठ तावत् / अनेन दण्डकाष्ठेन कन्दर्पव्याधि नाशयिष्यामि / राजा-( सस्मितम्-) भवतु / दृष्टं ब्रह्मवर्चसम् ! सखे ! क्वोपविष्टः प्रियायाः किंचिदनुकारिणीषु लतासु दृष्टिं विलोभयामि / विदूषकः–णं आसण्णपरिआरिआ चदुरिआ भवदा संदिट्ठा--'माहवी. मण्डवेइमं वेलं अदिवाहिस्सं, तहिं मे चित्तफल अगदं सहत्थलिहिदं ततहोदीए सउन्दलाए पडिकिदि आणेहि' ति / [नन्वासन्नपरिचारिका चतुरिका भवता संदिष्टा---'माधवीमण्डपे इमां वेलामतिवाहयिष्ये / तत्र मे चित्रफलकगतां स्वहस्तलिखितां. तत्रभवत्याः शकुन्तलायाः प्रतिकृतिमानयेति ] /