________________ 608. दाक्षिणात्यपाठानुसारि-... [षष्ठो राजा-वयस्य ! निराकरणविक्लवायाः प्रियायाः समवस्थामनुस्मृत्य बलवदशरणोऽस्मि / सा हि इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता, __मुहुस्तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे / पुनदृष्टिं बाष्पप्रसरकलुषामर्पितवती मयि करे, यत्तत्सविषमिव शल्यं दहति माम् // 9 // .. सानुमती-अम्महे ! ईदिसी स्वकज्जपरदा!-इमस्स संदावेण अहं . रमामि / [अहो! ईदृशी स्वकार्यपरता ! / अस्य संतापेनाऽहं रमे / विदूषकः-भो ! अस्थि मे तक्को--'केण वि तत्तहोदी आआसचारिणा णोदे'त्ति / [ भोः ! अस्ति मे तर्क:-'केनापि तत्रभवत्याकाशचारिणा नीते'ति]। राजा-कः पतिदेवतामन्यः परामष्टुंमुत्सहेत ? / मेनका किल सख्यास्ते जन्मप्रतिष्ठेति श्रुतवानस्मि / तत्सहचारिणीभिः सखी ते हृतेति मे हृदयमाशङ्कते। सानुमती-संभोहो क्खु विह्मअणिज्जो, ण पडिबोहो / [संमोहः खलु विस्मयनीयो, न प्रतिबोधः] / विदूषकः-जह एवं अस्थि क्खु समाप्रमो कालेण तत्तहोदीए। [ यद्येवमस्ति खलु समागमः कालेन तत्रभवत्याः ] / राजा-कथमिव ? / विदूषकः-ण क्खु मादापिदरा भत्तुविओअदुक्खिों दुहिदरं देक्खि पारेन्ति / [ न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं द्रष्टुं पारयतः ] / राजा-वयस्य ! खप्नो नु, माया नु, मतिभ्रमो नु, क्लिष्टं नु तावत्फलमेव पुण्यम् / असंनिवृत्त्यै तदतीतमेते, मनोरथा नाम तटप्रपाताः! // 10 // 1 'तामवस्थां' पा० / 2 'मनोरथानामतटप्रपाताः।