________________ ऽङ्कः] . अभिज्ञानशाकुन्तलम्wwwwwmniwww द्वितीया-सहि ! अवलम्ब मं जाव अग्गपादटिया भविअ चूदकलिअं गेह्निअ कामदेवच्चणं करेमि / [ सखि ! अवलम्बस्व मां, यावदग्रपादस्थिता भूत्वा, चूतकलिकां गृहीत्वा, कामदेवार्चनं करोमि। प्रथमा-जइ मम वि क्खु अद्धं अचणफलस्य / [ यदि ममाऽपि खल्बर्द्धमनफलस्य ] / द्वितीया-अकहिदे वि एवं संपज्जइ-जदो एक्कं एवं णो जीविदं दुधाद्विदं सरीरं / ( सखीमवलम्ब्य स्थिता चूताङ्कुरं गृह्णाति ) / अए ! अप्पडिबुद्धो वि चूदप्पसवो एस्थ बन्धणभङ्गसुरभी होदि / - (-इति कपोतहस्तकं कृत्वा-) तुम सि मए चूदङ्कर ! दिण्णो कामस्स गहीदधनुअस्स / पहिअजणजुवइलक्खो पञ्चाब्भहिओ सरो होहि // 3 // ( - इति चूताङ्कुर क्षिपति)। [अकथितेऽप्येतत्संपद्यते-यत एकमेव नौ जीवितं, द्विधा स्थितं शरीरम् / अये ! अप्रतिबुद्धोऽपि चूतप्रसवोऽत्र बन्धनभङ्गसुरभिर्भवति / त्वमसि मया चूताङ्कुर ! दत्तः कामाय गृहीतधनुषे / पथिकजनयुवतिलक्ष्यः, पञ्चाभ्यधिकः शरो भव / (प्रविश्याऽपटीक्षेपेण कुपितः-)। कचुकी-मा तावत् / अनात्मज्ञे! देवेन प्रतिषिद्धे वसन्तोत्सवे स्वमाम्रकलिकाभङ्ग किमारभसे ? / उभे-(भीते-) पसीददु अजो / अग्गहीदत्थाओ वरं। [प्रसीदत्वार्यः / अगृहीतार्थ आवाम् ] / कञ्चकी-न किल श्रुतं युवाभ्यां यद्वासन्तिकैस्तरुभिरपि देवस्य शासनं प्रमाणीकृतं, तदायिभिः पतत्रिभिश्च ! / तथाहिचूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः, संनद्धं यदपि स्धृितं कुरबकं तत्कोरकावस्थया / कण्ठेषु स्खलितं गतेऽपि शिशिरे पुस्कोकिलानां रुतं, शङ्के संहरति स्मरोऽपि चकितस्तूणार्द्धकृष्टं शरम् // 4 //