________________ 600 दाक्षिणात्यपाठानुसारि- [षष्ठो[ सूचक ! इमं गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं, यावदिदमङ्गुलीयकं यथागमनं भनिवेद्य, ततः शासनं प्रतीक्ष्य, निष्कमामि ] / उभौ-पविशदु आवुत्ते शामिपशादश्श / [प्रविशत्वावुत्तः स्वामिप्रसादाय] / . (- इति निष्क्रान्तः श्यालः ) / प्रथमः-जाणुअ ! चिलाअदि वस्खु आवुत्ते / [जानुक ! चिरायते खल्वावुत्तः ] / द्वितीयः-णं अवशलोवशप्पणीआ लाआणो / [ नन्ववसरोपसर्पणीया राजानः ] / ' प्रथमः-जाणुअ ! फुल्लन्ति मे हत्था इमश्श वहस्स शुमणा पिणद्धं / (-इति पुरुष निर्दिशति ) / [ जानुक ! प्रस्फुरतो मम हस्तावस्य वधार्थ सुमनसः पिनडुम् ] / पुरुषः- अलुहदि भावे अकालणमालणं भाविहूँ / [नाहति भावोऽकारणमारणं भावयितुम् ] / द्वितीयः- ( विलोक्य-) एशे अह्माणं शामी पत्तहत्थे लाअशाशणं पडिच्छिा इदोमुहे देक्खीअदि / गिद्धबली भविश्शशि, शुणो मुहं वा देखिशशि / [एष नौ स्वामी पत्रहस्तो राजशासनं प्रतीक्ष्येतोमुखो दृश्यते / गृध्रबलिभविष्यसि, शुनो मुखं वा द्रक्ष्यसि ] / __ (प्रविश्य-) श्याल:-सुअअ ! मुन्चेदु एसो जालोअजीवी / उववण्णो क्खु अङ्गुलीअअस्स आअमो। [सूचक ! मुच्यतामेष जालोपजीवी / उपपन्नः खल्बङ्गुलीयकस्यागमः ] / सूचकः-जह आवुत्ते भणादि / [ यथाऽऽवुत्तो भणति ] / द्वितीयः-एशे जमशदणं पविशिअ पडिणिवुत्ते / (-इति पुरुष परिमुक्तबन्धन करोति)। [ एष यमसदनं प्रविश्य प्रतिनिवृत्तः !] / / पुरुषः-(श्यालं प्रणम्य-) भट्टा ! अह कीलिशे मे आजीवे ? / [ भर्तः ! अथ कीदृशो मे आजीवः 1] / .. १'भविष्यति' पा० / 2 'द्रक्ष्यति' पा०।