________________ अभिज्ञानशाकुन्तलम् 599 [ पाटच्चर ! किमस्माभिर्जातिः पृष्टा 1] / श्यालः-सूअअ ! कहेदु शब्वं अणुक्कमेण / मा णं अन्तरा पडिबन्धह / [सूचक ! कथयतु सर्वमनुक्रमेण / मैनमन्तरे प्रतिबन्धय ] / उभौ-जं आवुत्ते आणवेदि / कहेहि / [ यदावुत्त आज्ञापयति / कथय ] / पुरुषः-अहके जालुग्गालादीहिं मच्छबन्धणोवाएहिं कुडुम्बभलणं कलेमि / [ अहं जालोद्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरगं करोमि। (उद्गालोबडिशम् ) / श्याल:-(विहस्य-) विसुद्धो दाणिं आजीवो ? / [विशुद्ध इदानीमाजीवः] / पुरुषः-(भट्टा ! सुणोदु ) / [ भर्त्तः ! शृणोतु] / शहजे किल जे विणिन्दिए, . __ण हु दे कम्म विवजणीअए। पशुमालणकम्मदालुणे, अणुकम्पामिदु जेव्व शोत्तिए // 1 // [ सहज किल यद्विनिन्दितं, न खलु तत्कर्म विवर्जनीयम् / पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः / श्याल:-तदो तदो? / [ ततस्ततः 1] / पुरुषः-एकशि दिअशे खण्डशो लोहिअमच्छे मए कप्पिदे जाव / तश्श उदलब्भन्तले एवं लदणभाशुलं अङ्गुलीअअं देक्खिअ, पच्छ अहके शे विकास दंशअन्ते गहिदे भावमिश्शेहिं / मालेह वा, मुञ्चेह वा / अशे आअमवुत्तन्ते / [एकस्मिन्दिवसे खण्डशो रोहितमत्स्यो मया कल्पितो यावत् , तस्योदराऽभ्यन्तरे इदं रत्नभासुरमङ्गुलीयं दृष्ट्वा, पश्चादहं तस्य विक्रयाय दर्शयन्गृहीतो भावमित्रैः / मारयत वा, मुञ्चत वा / अयमस्यागमवृत्तान्तः / श्याल:- जाणुअ ! विस्तगन्धी गोहादी मच्छबन्धो एग्व णिस्संस / अङ्गुलीअअदंसणं शे विमरिसिदध्वं / राअउलं एव्व गच्छामो। [जानुक ! विनगन्धी गोधादी मत्स्य वन्ध एव निःसंशयम् / अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम् / राजकुलमेव गच्छामः ] / रक्षिणी-तह / गच्छ अले गण्डभेदअ!। [तथा / गच्छ अरे गण्डभेदक !] / (सर्वे-परिक्रामन्ति)। श्याल:-सूअअ ! इमं गोपुरदुआरे अप्पमत्ता पडिवालह, जाव इमं . अङ्गलीमअं जहागमणं भट्टिणो णिवेदिअ तदो सासणं पडिच्छिा णिक्कमामि /