________________ 598 दाक्षिणात्यपाठानुसारि- [षष्ठो ( सर्वे-विस्मयं रूपयन्ति ) / राजा-भगवन् ! प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव / किं , वृया तणाऽन्विष्यते / विश्राम्यतु भवान् / पुरोहित:-( विलोक्य-) विजयस्व ! (- इति निष्क्रान्तः)। राजा-वेत्रवति ! पर्याकुलोऽस्मि / शयनभूमिमार्गमादेशय / प्रतीहारी-इदो इदो देवो / (-इति प्रस्थिता)। [इत इतो देवः]। राजा कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् / बलवत्तु दूयमानं प्रत्याययतीव मे हृदयम् // 31 // ( इति निष्क्रान्ताः सर्वे)। इति पञ्चमोऽङ्कः। अथ षष्ठोऽङ्कः।। .. ( ततः प्रविशति नागरकः श्यालः, पश्चाद्वद्धपुरुषमादाय रक्षिणौ च ) / रक्षिणौ-(ताडयित्वा-) अले कुम्भीला ! कहेहि कहिं तुए एशे मणिबन्धणुक्किण्णणामहेए लाभकीए अङ्गुलीभए शमाशादिए ? / . [अरे कुम्भीरक ! कथय कुत्र त्वयैतन्मणिबन्धनोत्कीर्णनामधेयं राजकीयमङ्गुलीयकं समासादितम् 1] / पुरुषः-(भीतिनाटितकेन-) पशीदन्तु भावमिश्शे / हगे ण ईदिशकम्मकाली। [प्रसीदन्तु भावमिश्राः / अहं नेशकर्मकारी]। प्रथमः-किं सोहणे बह्मणेत्ति कलिअ रजा पडिग्गहे दिण्णे ? [किं शोभनो ब्राह्मण इति कलयित्वा राज्ञा प्रतिग्रहो दत्तः ?] / . पुरुषः-सुणध दाणिं / हगे शकावदालन्धन्तरालवाशी धीवले। [शृणुतेदानीम् / अहं शक्रावताराभ्यन्तरवासी धीवरः ] 1. द्वितीयः-पाडच्चला ! किं अम्हहिं जादी पुच्छिदा। .