________________ 596 दाक्षिणात्यपाठानुसारि- [पञ्चमोशारिवः-विनिपातः राजा-विनिपातः पौरवैः प्रायंत इति न श्रद्धेयम् / शारद्वतः-शारिव ! किमुत्तरेण / अनुष्ठितो गुरोः संदेशः। प्रतिनिवर्ता-. महे वयम्। (राजानं प्रति-) . तदेषा भवतः कान्ता, त्यज वैनां, गृहाण वा। ____उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी // 26 // गौतमि ! गच्छाऽग्रतः। (-इति.प्रस्थिताः)। शकुन्तला-कहं इमिणा किदवेण विप्पल लि / तुम्हे वि मं परिच्चअहः / (-इत्यनुप्रतिष्ठते ) / [ कथमनेन कितवेन विप्रलब्धाऽस्मि ? / यूयमपि मां परित्यजथ !] / गौतमी-( स्थित्वा-) वच्छ सगरव! अणुगच्छदि इअं क्खु णो करुणपरिदेविणी सउन्दला / पच्चादेसपरुषे भनुणि किं वा मे पुत्तिा करेदु ?! [ वत्स शार्ङ्गरव ! अनुगच्छतीयं खलु नः करुणपरिदेविनी शकुन्तला / प्रत्यादेशपरुषे भर्तरि किं वा मे पुत्रिका करोतु 1] / शाङ्गरवः-( सरोष निवृत्य-) किं पुरोभागे ! स्वातन्त्र्यमवलम्बसे ? / (शकुन्तला-भीता वेपते)। शाङ्गरवः-शकुन्तले! यदि यथा वदति क्षितिपस्तथा त्वमसि, किं पितुरुत्कुलया त्वया ? / अथ तु वेत्सि शुचि व्रतमात्मनः, पतिकुले तव दास्यमपि क्षमम् // 27 // -तिष्ठ। साधयामो वयम्।। राजा-भोस्तपस्विन् ! किमत्रभवतीं विप्रलभसे ? / कुमुदान्येव शशाङ्कः, सविता बोधयति पङ्कजान्येव / वशिनां हि परपरिग्रहसंश्शेषपराङ्मुखी वृत्तिः // 28 // शाङ्गरवः-यदा तु पूर्ववृत्तमन्यसङ्गाद्विस्मृतो भवांस्तदा कथमधर्मभीरुः /