________________ ऽङ्कः] अभिज्ञानशाकुन्तलम् शकुन्तला-(सरोपम्-) अणज! अत्तणो हिमआणुमाणेण पेक्खसि / को दाणि अण्णो धम्मकञ्चुअप्पवेसिणो तिणच्छण्णकूवोवमस्स तव अणुकिदि .पडिवदिस्सदि ? / [अनार्य ! आत्मनो हृदयानुमानेन पश्यसि / क इदानीमन्यो धर्मकञ्चुकप्रवेशिनस्तृणच्छन्नकूपोपमस्य तवानुकृति प्रतिपत्स्यते ?] / . राजा-(श्रात्मगतम् - ) संदिग्धबुद्धिं मां कुर्वन्नकैतव 'इवाऽस्याः कोपो लक्ष्यते ! / तथा घनया__ मय्येव विस्मरणदारुणचित्तवृत्तौ, वृत्तं रहःप्रणयमप्रतिपद्यमाने / भेदाद् ध्रुवोः कुटिलयोरतिलोहिताक्ष्या, भग्नं शरासनमिवाऽतिरुषा स्मरस्य // 23 // (प्रकाशम्-) भद्रे ! प्रथितं दुष्यन्तस्य चरितम् / तथापीदं न लक्षये / शकुन्तला-सुट्ट दाव अत्त सच्छन्दचारिणी किदह्मि, जा अहं इमस्स पुरुवंसप्पचएण मुहमहुणो हिअअट्रिअविसस्स हत्थब्भासं उवगदा। (-इति पटान्तेन मुखमावृत्य रोदिति ) / [सुष्ठु तावदत्र स्वच्छन्दचारिणी कृताऽस्मि, याऽहमस्य पुरुवंशप्रत्ययेन मुखमधोई दयस्थितविषस्य हस्ताऽभ्याशमुपगता ] / शाङ्गरवः-इत्थमात्मकृतं प्रतिहतं चापलं दहति / ___ अतः परीक्ष्य कर्तव्यं विशेषात्सङ्गतं रहः / अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् // 24 // राजा-अयि भोः! किमत्रभवतीप्रत्ययादेवाऽस्मान्संयुतदोषाक्षरैः क्षिणुथ ! / शाङ्गरवः-( सासूयम् -) श्रुतं भवद्भिरधरोत्तरम् ! आ जन्मनः शाठ्यमशिक्षितो य. . स्तस्याऽप्रमाणं वचनं जनस्य / पराऽतिसन्धानमधीयते यै. विद्येति' ते सन्तु किलाऽऽप्तवाचः ! // 25 // राजा-भोः सत्यवादिन् ! अभ्युपगतं तावदस्माभिरेवम् / किं पुनरिमाम-. ' तिसन्धाय लभ्यते /