________________ ऽङ्कः] 38 अभिज्ञानशाकुन्तलम् 593 शारद्वतः-शारव ! विरम स्वभिदानीम् / शकुन्तले ! वक्तव्यमुक्तमस्माभिः / सोऽयमत्रभवानेवमाह / दीयतामस्मै प्रत्ययप्रतिवचनम् / शकुन्तला-( अपवार्य-) इमं अवत्थन्तरं गदे तारिसे अणुराए किं वा सुमराविदेण 1 / अत्ता दाणिं मे सोअणीओ त्ति ववसिदं एदम् ! (प्रकाशम्-) अजउत्त ! (-इत्योक्ते-) संसइदे दाणिं ण एसो समुदाहारो। पोरव ! ण जुत्तं णाम दे तह पुरा अस्समपदे सहावुत्ताणहिअ इमं जणं समअपुन्वं पतारिअ ईदिसेहिं अक्खरेहि पञ्चाचक्खिदुं / / [ इदमवस्थान्तरं गते तादृशेऽनुरागे किं वा स्मारितेन ? / आत्मेदानी मे शोचनीय इति व्यवसितमेतत् / आर्यपुत्र ! / संशयिते इटानी नैष समुदाचारः। पौरव ! न युक्तं नाम ते तथा पुराऽऽश्रमपदे स्वभावोत्ता न हृदयमिमं जनं समयपूर्व प्रतार्येशैरक्षरैः प्रत्याख्यातुम् ] / राजा-( कौँ पिधाय-) शान्तं पापम् / व्यपदेशमाविलयितुं किमीहसे, जनमिमं च पातयितुम ? / कूलङ्कषेव सिन्धुः प्रसन्नमम्भस्तटतरं च // 21 // शकुन्तला-होदु / जइ परमत्थतो परपरिग्गहसङ्किणा तुम एवं वर्त पउत्तं, ता अभिण्णाणेन इमिणा तुह आसङ्कं अवणइस्सं। [ भवतु ! यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं वक्तुं प्रवृत्तं, वदमिजानेनाऽनेन तवाशङ्कामपनेष्यामि]। . राजा-उदारः कल्पः / शकुन्तला-(मुद्रास्थानं परामृश्य-) हद्धी ! अङ्गुलीअंभसुष्णा मे अङ्गुली ! / (-इति सविषादं गौतमीमवेक्षते ) / [ हा धिक् / अङ्गुलीयकशून्या मेऽङ्गुलिः ] / गौतमी-णूणं दे सक्कावदारभन्तरे सचीतित्थसलिलं वन्दमाणाए पन्भर्ट अङ्गुलीअई। [ नूनं. ते शक्रावताराभ्यन्तरे शचीतीर्थसलिलं वन्दमानायाः प्रभ्रष्टमङ्गुलीयकम् / राजा-( सस्मितम्-) इदं तत्प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते।