________________ ऽङ्कः] अभिज्ञानशाकुन्तलम् - समानयंस्तुल्यगुणं वधूवरं, चिरस्य वाच्यं न गतः प्रजापतिः // 15 // .. -तदिदानीमापन्नसत्त्वा प्रतिगृह्यतां सहधर्मचरणायेति / गौतमी-अज्ज ! किंपि वत्तकाममि / ण मे वअणावसरो अस्थि / कहति ?णावेक्खिओ गुरुअणो इमाई, ण हु पुच्छिदो अ बन्धुअणो।.. एककमेव्व चरिए भणामि किं एकमेकस्स // 16 // [ आर्य ! किमपि वक्तुकामाऽस्मि / न मे वचनावसरोऽस्ति / कथमिति नापेक्षितो गुरुजनोऽनया, न खलु पृष्टश्च बन्धुजनः / एकैकमेव चरिते मणामि किमेकमेकस्य / शकुन्तला-(आत्मगतम्- ) किं णु क्खु अज्जउत्तो भणादि ?! [किं नु खल्वार्यपुत्रो भणति 1] / राजा-किमिदमुपन्यस्तम् ! / शकुन्तला-(आत्मगतम्-) पावओ क्खु वअणोवण्णासो!। [ पावकः खलु वचनोपन्यासः !] / . शार्ङ्गरवः-कथमिदं नाम ? / भवन्त एव सुतरां लोकवृत्तान्तनिष्णाताः / सतीमपि ज्ञातिकुलैकसंश्रयां, जनोऽन्यथा भर्तृमती विशङ्कते / अतः समीपे परिणेतुरिष्यते, प्रियाऽप्रिया वा प्रमदा स्वबन्धुभिः // 17 // राजा-किं चाऽत्रभवती मया परिणीतपूर्वा ? / शकुन्तला-( सविषादमात्मगतम्-) हिअअ ! संपदं दे आसङ्का / [हृदय ! सांप्रतं ते आशङ्का ] / शाङ्गैरवःकिं कृतकार्यद्वेषो, धर्म प्रति विमुखता, कृताऽवज्ञो ? / * राजा-कुतोऽवमसस्कल्पनाप्रश्नः / 1 'परस्परस्मिन्नेव चरिने भषामि किमेकैकम् / 2 'कृशावज्ञा' /