________________ अभिज्ञानशाकुन्तलम् 589 कञ्चुकी-इत इतो भवन्तः। शाङ्गरवः-शारद्वत ! .महाभागः कामं नरपतिरभिन्नस्थितिरसौ, न कश्चिद्वर्णानामपथमएकृष्टोऽपि भजते / तथापीदं शश्वत्परिचितविविक्तेन मनसा, जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव // 10 // शारद्वतः-जाने भवान्पुरप्रवेशादित्थंभूतः संवृत्तः / अहमपि अभ्यक्तमिव स्नातः, शुचिरशुचिमिव, प्रबुद्ध इव सुप्तम् / बद्धमिव स्वैरमतिर्जनमिह सुखसङ्गिनमवैमि // 11 // शकुन्तला-( निमित्तं सूचयित्वा--) अम्महे ! किं मे वामेदरं गभणं विष्फुरदि ? / [ अहो ! किं मे वामेतरन्नयनं विस्फुरति 1] / गौतमी-जाते ! पडिहदं अमङ्गलं / सुहाइ दे भत्तु कुलदेवदाओ वितरन्दु / (-इति परिक्रामति)। . [ जाते ! प्रतिहतममङ्गलम् / सुखानि ते भर्तृकुलदेवता वितरन्तु ] / पुरोहितः-( राजानं निर्दिश्य ) भो भोस्तपस्विनः ! असावत्रभवान्वर्णाभमाणां रक्षिता, प्रागेव मुक्तासनो, वः प्रतिपालयति / पश्यतैनम् / शाङ्गरवः-भो महाब्राह्मण ! काममेतदभिनन्दनीयं, तथापि वयमत्र मध्यस्थाः / कुतः ?-- भवन्ति नम्रास्तरवः फलागमै नवाम्बुभिदूरविलम्बिनो घनाः / अनुद्धताः सत्पुरुषाः समृद्धिभिः, - स्वभाव एवैष परोपकारिणाम् // 12 // प्रतीहारी-देव ! पसपणमुहवण्णा दीसन्ति / जाणामि विसद्धकज्जा इसीओ। [ देव ! प्रसन्नमुखवर्णा दृश्यन्ते, जानामि विश्रन्धकार्या ऋषयः ] / राजा-(शकुन्तलां दृष्ट्वा-) अथाऽत्रभवती का स्विदवगुण्ठनवती नाऽतिपरिस्फुटशरीरलावण्या / मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ? // 13 //