________________ अभिज्ञानशाकुन्तलम् / 585 उभे-ताद ! सउन्दलाविरहिदं सुण्णं विअ तवोवणं कह पविसावो ? / [तात ! शकुन्तलाविरहितं शून्यमिव तपोवनं कथं प्रविशावः 1 / / काश्यपः-स्नेहप्रवृत्तिरेवंदर्शिनी / ( सविमर्श परिक्रम्य-) हन्त भोः ! शकुन्तला पतिकुलं विसृज्य लब्धमिदानी स्वास्थ्यम् / कुतः ?अर्थो हि कन्या परकीय एव, तामद्य संप्रेष्य परिग्रहीतुः / जातो ममायं विशदः प्रकामं, प्रत्यर्पितन्यास इवाऽऽन्तरात्मा // 22 // ( इति निष्क्रान्ताः-सर्व)। इति चतुर्थोऽङ्कः। अथ पञ्चमोऽङ्कः। (ततः प्रविशयांसनस्थो राजा, विदूषकश्च ) / विदूषकः-( कर्ण दत्त्वा-) भो वअस्स ! संगीतसालन्तरे अवधाणं देहि / कलविसुद्धाए गीदीए सरसंजोओ सुणीअदि / जाणे तत्तहोदी हंसवदिआ वण्णपरिअअं करेदि त्ति / .. [भो वयस्य ! संगीतशालान्तरेऽवधानं देहि। कलविशुद्धाया गीतेः स्वरसंयोगः श्रूयते / जाने 'तत्रभवती हंसपदिका वर्णपरिचयं करोतीति ] / राजा-तूष्णीं भव / यावदाकर्णयामि / . (आकाशे गीयते--) अहिणवमहुलोलुवो भवं तह परिचुम्बिअ चूअमञ्जरिं। कमलवसइमेत्तणिव्वुदो . महुअर ! विह्मरिओ सि णं कहं ? // 1 // [ अभिनवमधुलोलुगो भवांस्तथा परिचुम्ब्य चूतमञ्जरीम् / कमलवसतिमात्रनिर्वृतो मधुकर ! विस्मृतोऽत्येनां कथम् 1 // ]