________________ 584 दाक्षिणात्यपाठानुसारि- चतुर्थोसख्यौ-मा भााहि / सिणेहो पावसकी। [मा भैषीः। स्नेहः पापशङ्की ] / शाङ्गरवः-युगान्तरमारूढः सविता / त्वरतामत्रभवती / शकुन्तला-( आश्रमाभिमुखी स्थित्वा-) ताद ! कदा णु भूओ तवोवणं पेक्खिस्सं ? / [ तात ! कदा नु भूयस्तपोवनं प्रेक्षिष्ये 1] / काश्यपः-श्रयताम्भूत्वा चिराय चतुरन्तमहीसपत्नी, दौष्यन्तिमप्रतिरथं तनयं निवेश्य / भर्ना तदर्पितकुटुम्बभरेण सार्द्ध शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् // 20 // . गौतमी-जादे ! परिहीअदि गमणवेला। णिवत्तेहि पिदरं / अहवा चिरेण वि पुणो पुणो एसा एवं मन्तइस्सदि / णिवत्तदु भवं / / __ [जाते ! परिहीयते गमनवेला / निवर्त्तय पितरम् / अथवा चिरेणापि पुनःपुनरेषेवं मन्त्रयिष्यते / निवर्त्ततां भवान् ] / काश्यपः-वत्से ! उपरुध्यते ( मे) तपोऽनुष्ठानम् / शकुन्तला-(भूयः पितरमाश्लिष्य--) तवच्चरणपीडिदं तादसरीरं / ता मा अदिमे मम किदे उक्कण्ठिदुम् / .[ तपश्चरणपीडितं तातशरीरम् / तन्माऽतिमात्रं मम कृते उत्कण्ठितुम् / काश्यपः-( सनिःश्वासम्-) शममेष्यति मम शोकः कथं नु वत्से ! त्वया रचितपूर्वम् / उटजद्वारविरूढं नीवारबलिं विलोकयतः ? // 21 // -गच्छ / शिवास्ते पन्थानः सन्तु / (निष्क्रान्ता शकुन्तला, सहयायिनश्च ) / सख्यौ-शकुन्तलां विलोक्य-) हद्धी हद्धी ! अन्तलिहिदा सउन्दला वणराईए। [ हा धिक् हा धिक् / अन्तर्हिता शकुन्तला वनराज्या] / काश्यपः- ( सनिःश्वासम्—) अनसूये ! गतवती वां सह (धर्म) चारिणी / निगृह्य शोकमनुगच्छतं मां प्रस्थितम् /