________________ अभिज्ञानशाकुन्तलम् 583 -कथं वा गौतमी मन्यते ? / गौतमी-एत्तिओ बहूजणस्स उवदेसो / जादे! एवं क्खु सव्वं बोधारेहि / [एतावान्वधूजनस्योपदेशः / नाते ! एतत्खलु सर्वमवधारय ] / काश्यपः-वत्से ! परिष्वजस्व मां, सखीजनं च। शकुन्तला-ताद ! इदो एव्व किं पिवदामिस्साओ सहोओ णिवत्तिस्सन्ति ? [ तात ! इत एव किं प्रियंवदामिश्राः सख्यो निवर्तिष्यन्ते 11 / काश्यपः--वत्से ! इमे अपि प्रदेये / न युक्तमनयोस्तत्र गन्तुम् / त्वया सह गौतमी यास्यति / शकुन्तला-(पितरमाश्लिष्य-) कहं दाणिं तादस्स अङ्कादो परिभट्ठा मलभतरून्मूलिआ चन्दणलदा विअ देशन्तरे जीविअं धारइस्सं ? / [ कथमिदानीं तातस्याऽङ्कात्परिभ्रष्टा-मलयतरून्मूलिता चन्दनलतेवदेशान्तरे जीवितं धारयिष्ये 1] / काश्यपः-वत्से ! किमेवं कातराऽसि 1 / अभिजनवतो भत्तः श्लाध्ये स्थिता गृहिणीपदे, विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला। तनयमचिरात्प्राचीवाऽकं प्रसूय च पावनं, मम विरहजां न त्वं वत्से ! शुचं गणयिष्यसि // 19 // . _ (शकुन्तला-पितुः पादयोः पतति)। काश्यपः-( सख्यावुपेत्य-) हला ! दुवे वि में समं एब्व परिस्सजह / [हला ! द्वे अपि मां सममेव परिष्वजेथाम् / सख्यौ-( तथा कृत्वा-) सहि ! जइ णाम सो राआ पञ्चहिण्णाणमन्थरो भवे तदो से इमं अत्तणामहेअअङ्किअं अङ्गुलीअअंदंसेहि / [सखि ! यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत्ततस्तस्येदमात्मनामधेयाऽङ्कितमङ्गुलीयकं दर्शयेः]। शकुन्तला-इमिणा मंदेहेण वो आकम्पिदसि / [अनेन सन्देहेन वामाकम्पिताऽस्मि /