________________ 582 दाक्षिणात्यपाठानुसारि- [चतुर्थो शकुन्तला-( जनान्तिकम्--) हला! पेक्ख / णलिणीपत्तम्तरिदं वि सहअरं अदेक्खन्ती आदुरा चक्कवाई आरडदि“दुक्करं अहं करेमि' ति। . . [हला ! पश्य नलिनीपत्रान्तरितमपि सहचरमपश्यन्त्यातुरा चक्रवाक्योरटति 'दुष्करमहं करीमी ति]। अनसूया-सहि ! मा एवं मन्तेहि / [ सखि ! मैवं मन्त्रय ] / एषा वि पिएण विणा गमेइ रअणिं विसाअदीहअरं / गरअं पि विरहदुक्खं आसाबन्धो सहावेदि / / 16 // [ एषापि प्रियेण विना गमयति रजनीं विषाददीर्घतराम् / गुर्वपि विरहदुःखमाशाबन्धः साहयति ] // 16 // काश्यपः-शारिव ! इति स्वया मद्वचनात्स राजा शकुन्तला पुरस्कृत्य वक्तव्य: शाङ्गरव-आज्ञापयतु भवान् / काश्यपःअस्मान्त्साधुविचिन्त्य संयमधनानुच्चैः कुलं चात्मन स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिश्च ताम् / सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया, भाग्यायत्तमतःपरं, न खलु तद्वाच्यं वधूबन्धुभिः // 17 // शाङ्गरवः-गृहीतः संदेशः।। काश्यपः--वत्से ! त्वमिदानीमनुशासमीयाऽसि / वनौकसोऽपि सन्तो लौकिकज्ञा वयम् / शाङ्गरवः-न खलु धीमतां कश्चिदविषयो नाम / काश्यपः-सा त्वमितः पतिकुलं प्राप्य,शुश्रषस्व गुरुन्कुरु प्रियसखीवृत्तिं सपत्नीजने, भत्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः / भूयिष्ठं भव दक्षिणा परिजने, भाग्येष्वनुत्सेकिनी, यान्त्येवं गृहिणीपदं युवतयो, वामाः कुलस्याऽऽधयः // 18 // 1 करोमीति तक्केमि' / [ करोमीति तर्कयामि ] / 2 'आरौति' / 3 'पत्युः।