________________ www ऽङ्कः] . अभिज्ञानशाकुन्तलम् 581 [तात ! एषोटजपर्यन्तचारिणी गर्भमन्थरा मृगबधूर्यदाऽनघपसवा भवति, तदा मह्यं कमपि प्रियनिवेदयितृकं विसर्जयिष्यथ ] / काश्यपः-नेदं विस्मरिष्यामः। शकुन्तला-( गतिभङ्गं रूपयित्वा-) को णु क्खु एसो णिवसले मे सज्जइ ! / ( --इति परावर्तते ) / [ को नु खल्वेष निवसने मे सजते 1] / काश्यपः-वस्से ! यस्य त्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत मुखे कुशसूचिविद्धे / श्यामाकमुष्टिपरिवर्द्धितको जहाति सोऽयं न पुत्रकृतकः पदवीं मृगस्ते // 14 // शकुन्तला-वच्छ ! किं सहवासपरिच्चाइणिं मं अणुसरसि ? / अचिरप्पसूदाए जणणीए विणा वड्डियो एन्व / दाणि पि मए विरहिदं तुम तादो चिन्तइस्सदि / णिवत्तेहि दाव / (-इति रुदती प्रस्थिता ) / [वत्स ! किं सहवासपरित्यागिनीं मामनुसरसि 1 / अचिरप्रसूतया जनन्या विना वर्द्धित एव / इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति / निवर्तस्व तावत् / काश्यपः. उत्पक्ष्मणोनयनयोरुपरुद्धवृत्तिं, बाष्पं कुरु स्थिरतया विहतानुबन्धम् / अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति / / 15 // शाङ्गरवः-भगवन् ! 'ओदकान्तात् स्निग्धो जनोऽनुगन्तव्य' इति श्रूयते / तदिदं सरस्तीरम् / अत्र संदिश्य प्रतिगन्तुमर्हसि / काश्यपः-तेन हीमां क्षीरवृक्षच्छायामाश्रयामः / . . ( सर्वे-परिक्रम्य स्थिताः) काश्यपः-( आत्मगतम्-) किं नु खलु तत्रभवतो दुष्यन्तस्य युक्तरूपमस्माभिः संदेष्टव्यम् ? / (-इति चिन्तयति ) /