________________ अभिज्ञानशाकुन्तलम् आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः, सेयं याति शकुन्तला पतिगृहं, सर्वैरनुज्ञायताम् // 9 // * (कोकिलावं सूचयित्वा-) अनुमतगमना शकुन्तला, तरुभिरियं बनधासबन्धुभिः / परभृतविरुतं कलं यथा प्रतिवचनीकृसमेभिरीरशम् // 10 // ( आकाशे-) रम्यान्तरः कमलिनीहरितैः सरोभि श्छायाद्रुमैनियमिताऽर्कमयूखतापः / भूयात्कुशेशयरजोमृदुरेणुरस्याः, शान्तानुकूलपवनश्च, शिवश्व पन्थाः // 11 // (सर्व-सविस्मयमाकर्णयन्ति ) / गौतमी-जादे ! ण्णाद्विजणसिमिछाहिं अणुगावगमवासि तवोवणदेवदाहिं / पणम भवदीणं / [जाते ! ज्ञातिजनस्निग्धाभिरनुज्ञातगमनाऽसि तोवनदेवताभिः / प्रणम भगवतीः] / शकुन्तला-(सप्रणामं परिक्रम्य, 'जनान्तिकम् - ) हला पिवदे! गं अज्ञउत्तदसणुस्सुआए वि अस्समपदं परिचअन्तीए दुक्खेण मे चलणा पुरदो पवन्ति / [ हला प्रियंवदे ! नन्वार्यपुत्रदर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः प्रवर्तेते !] / प्रियंवदा- केवलं तवोवणविरहकादरा सही एज्व, तुए उवविविओअस्स तवोवणस्स वि दाव समवस्था दीसह / [ न केवलं तपोवनविरहकातरा सख्येव, वयोपस्थित्रियोगस्य लपोनस्यापि . तोवत्समवस्था दृश्यते। 1 'रुतं'। २'आत्मनः' पा०। 3 'समावस्था'।