________________ 578 दाक्षिणात्यपाठानुसारि- [चतुर्थो (शकुन्तला-उत्थाय परिधत्ते)। गौतमी-जादे ! एसो दे आणन्दपरिवाहिणा चस्खुणा परिस्सजन्तो विओ गुरू उवट्टिदो / आआरं दाव पडिवज्जस्स | [जाते ! एष ते आनन्दपरिवाहिणा चक्षुषा परिष्वजमान इव गुरुरुपस्थितः / आचारं तावत्प्रतिपद्यस्व / शकुन्तला-(सब्रीडम्-) ताद ! वन्दामि / [ तात ! वन्दे / काश्यपः-वत्से! ययातेरिव शर्मिष्ठा भत्तुंबहुमता भव / सुतं त्वमपि सम्राजं सेव पूरुमवाप्नुहि // 7 // गौतमी-भअवं ! वरो क्खु एलो, णा आलिसा / [ भगवन् ! वरः खल्वेष नाऽऽशी:]। , काश्यपः-वत्से ! इतः सद्योहुताग्नीन्प्रदक्षिणीकुरुष्व / __ (सर्व-परिक्रामन्ति ) काश्यपः-(ऋक्छन्दसाऽऽशास्ते-)। ___ अमी वेदिं परितः क्लुप्तधिष्ण्याः , समिद्वन्तः, प्रान्तसंस्तीर्णदर्भाः। अपघ्नन्तो दुरितं हव्यगन्ध वैतानास्त्वां वह्नयः पावयन्तु // 8 // प्रतिष्ठस्वेदानीम् / ( सदृष्टिक्षेपम्-) क ते शोरवमिश्राः ? / (प्रविश्य-) शिष्यः-भगवन् ! इमे स्मः। काश्यपः-भगिन्यास्ते मार्गमादेवाय / शाङ्गरवः-इत इतो भवती। _ (सर्व परिष्क्रान्ति)। काश्यपः-भो भोः संनिहितास्तपोवनतरवः ! पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या, . नाऽऽदत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् / 1 'क्क शार्ङ्गरवमिश्राः' / 'शार्ङ्गखमिश्रः /