________________ 577 ऽङ्कः] 37 अभिज्ञानशाकुन्तलम् अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितै दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्द्विभिः // 5 // प्रियंवदा-(शकुन्तलां विलोक्य- ) हला ! इमाए अब्भुववत्तीए सूइआ दे भत्तणो गेहे अणुहोदव्वा राअलच्छित्ति। [हला ! अनयाऽभ्युपपत्त्या सूचिता ते भर्तुर्गेहेऽनुभवितव्या राजलक्ष्मीरिति ] / (शकुन्तला-व्रीडां रूपयति ) / प्रथमः-गौतम ! एह्येहि। अभिषेकोत्तीर्णाय काश्यपीय वनस्पतिसेवां निवेदयावः / द्वितीयः-तथा। (-इति निष्क्रान्तौ)। सख्यौ-अए ! अणुवजुत्तभूसणो अअं जणो। चित्तकम्मपरिभएण भङ्गेसु दे आहरणविणिओ करेझ / [अये ! अनुपयुक्तभूषणोऽयं जनः / चित्रकर्मपरिचयेनाऽङ्गेषु ते आभरणविनियोगं कुर्वः। शकुन्तला-जाणे वो णेउणं / [ जाने वां नैपुणम् ] / ( उभे-नाटयेनालङ्कुस्तः ) / ___ (ततः प्रविंशति स्नानोत्तीर्णः कौश्यपः)। कोश्यपःयास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया, कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् / वैक्लव्यं मम तावदीद्दशमिदं स्नेहादरण्यौकसः, पीड्यन्ते गृहिणः कथं न तनयाविश्लेषदुःखैनवैः ! // 6 // (-इति परिक्रामति ) / सख्यौ-हला सउन्तले ! अवसिदमण्डणासि / परिधेहि संपदं खोमजुअलं / [हला शकुन्तले ! अवसितमण्डनाऽसि / परिधत्स्व साम्प्रतं क्षौमयुगलम् ] / 1 'कण्वाय'। 2 'कण्वः' / . .