________________ 576 दाक्षिणात्यपाठानुसारि- [चतुर्थो द्वितीयः-वच्छे ! वीरप्पसविणी होहि / [ वत्से ! वीरप्रसविनी भव] / तृतीया-वच्छे ! भत्तुणो बहुमदा होहि / [ वत्से ! भत्तबहुमता भव ] 1. (-इत्याशिषो दत्त्वा गौतमीवजं निष्क्रान्ताः ) / सख्यौ-( उपसृत्य-) सहि ! सुहमजणं दे होदु / [ सखि ! सुखमजन ते भवतु ] / शकुन्तला-साअ मे सहीणं / इदो णिसीदह / [ स्वागतं मे सख्योः / इतो निष'दतम् ] / उभे-(मङ्गलपात्राण्यादाय, उपविश्य-) हला! सजा होहि / जाव मङ्गलसमालम्भणं विरएम / [हला ! सजा भव / यावन्मङ्गलसमालम्भनं विरचयावः ] शकुन्तला-इदं पि बहु मन्तव्वं / दुल्लहं दाणिं में सहीमण्डणं भविस्सदि त्ति / ( –इति बाष्पं विसृजति)। [ इदमपि बहु मन्तव्यम् / दुर्लभमिदानी मे सखीमण्डनं भविष्यतीति ] / उभे-सहि' ! उइअंण दे मङ्गलकाले रोइदु / (-इत्यभूणि प्रमृज्य नाटयेन प्रसाधयतः ) / [ सखि ! उचितं न ते मङ्गलकाले रोदितुम् ] / प्रियंवदा-आहरणोइदं रूबं असमसुलहेहि पसाहणेहिं विप्पारीअदि / [ आभरणोचितं रूपमाश्रमसुलभैः प्रसाधनैर्विप्रकार्यते ] / (प्रविश्योपायनहस्तौ--) ऋषिकुमारको-इदमलङ्करणम् / अलंक्रियतामत्रभवती / (सवों-विलोक्य विस्मिताः)। गौतमी-वच्छ णारअ ! कुदो एदं ? / [ वत्स नारद ! कुत एतत् 1] / प्रथमः-तातकाश्यपप्रभावात् / / गौतमी-किं माणसी सिद्धी ? [ / कि मानसी सिद्धिः 1 ] ! द्वितीयः-न खलु / श्रृयताम् / तत्रभवता वयमाज्ञप्ताः–'शकुन्तलाहेतोवनस्पतिभ्यः कुसुमान्याहरते'ति / तत इदानींक्षौमं केनचिदिन्दुपाण्डु तरुणा माङ्गल्यमाविष्कृतं , निष्ठ्यतश्चरणोपभोगसुलभो लाक्षारसः केनचित् / 1 'कण्व' / 2 'मङ्गल्य' /